________________
८-१० ]
अष्टमः सर्गः
उद्भूतमद्धूलिघनान्धकारे शंम्पा सकम्पा स्म लसत्युदारे । रणाङ्गणे पाणिकपणमाला चुकूजुरेवं तु शिखण्डिबालाः ॥ ८ ॥ उद्धृतेति । उद्धृता समुत्थिता या सद्धूलिश्चरणरेणुस्तया घनो निविडोऽन्धकारो यस्मिन् तथा स एव घनस्वरूपो मेघात्मकोऽन्धकारो यस्मिंस्तस्मिन्नुवारे सविस्तरे गगनसवृशे रणाङ्गणे युद्धधमानानां योधानां पाणिषु हस्तेषु या कृपाणानां खङ्गानां माला सेव कम्पसहिता सकम्पा शम्पा विद्युदेवं मत्वा शिखण्डिनां केकिनां बालाश्चुकूजुः केकारवञ्चक्रुरित्यर्थः । भ्रान्तिमानलङ्कारः ॥ ८ ॥
३८५
रविञ्च विच्छाद्य रजोऽन्धकारो नभस्यभृत् प्राप्ततमाधिकारः । युध्यत्प्रवीरक्षतजप्रचारः सायं श्रियस्तत्र बभूव सारः ।। ९ ।।
रविचेति । नभसि गगनेऽत्यधिकत्वेन प्राप्तः प्राप्ततमोऽधिकारो येन सः, रविञ्च सूर्यमपि विच्छाद्य गोपयित्वा रजसा जन्योऽन्धकारो रजोऽन्धकारोऽभूत्, तत्र युध्यमानानां युद्धं कुर्वतां प्रवीराणां सुभटानां क्षतजस्य रक्तस्य प्रचारो यो बभूव स एव सायंश्रियः सन्ध्याकालीनारुणिमशोभाया सारो बभूव । रूपकालङ्कारः ॥ ९ ॥
सवेगमाक्रान्ततमाश्च वीरैनिंषेधिकामाहुरिवाथ धीरैः । भेरीप्रतिध्वानविधानजन्यां रजस्वलाः सम्प्रति दक्षकन्याः || १० ॥ सवेगमिति । अथात्र रणाङ्गणे च धीरेवरैर्युद्धकरणशीलैः सवेगं सरभसमाक्रान्ता
अन्वय : उद्भूतसद्धू लिघनान्धकारे उदारे रणाङ्गणे पाणिकृपाणमाला सकम्पा लसति स्मा ( सा ) शम्पा एवं तु शिखण्डिबाला चुकूजुः ।
अर्थ : उड़ी हुई धूलीके कारण मेघकी तरह अन्धकाराच्छन्न विशाल रणाङ्गणमें योद्धाओंके हाथोंमें कम्पमान तलवारोंकी माला चमक रही थी । किन्तु मोरोंके बच्चे उन्हें बिजली समझकर केकावाणी बोलने लगे ॥ ८ ॥
अन्वय : तत्र रजोऽन्धकार : रविं च विच्छाद्य नभसि प्राप्ततमाधिकारः अभूत् । तत्र च युद्धयत्प्रवीरक्षतजप्रचार : सायंश्रियः सारः बभूव ।
अर्थ : उस समराङ्गण में उठी धूलने सूर्यको भी ढँक लिया और वह सारे आकाशपर छा गयी । ऐसो स्थिति में संग्राम कर रहे वीरोंके शरीरसे निकलनेवाली रक्तकी धाराओंने वहाँ सन्ध्याकी शोभाका सारसर्वस्व पा लिया ॥ ९ ॥ अन्वय : अथ संप्रति रजस्वलाः धीरः वीरः च सवेगम् आक्रान्ततमाः दक्षकन्या: भेरीप्रतिध्वानविधानजन्यां निषेधिकाम् इव आहुः ।
४९ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org