SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८४ जयोदय-महाकाव्यम् नभाऽत्र भो त्रस्तमुदीरणाभिर्भवद्भटानामतिदारुणाभिः । सुभैरवैः सैन्यरवैः कगलवाचालवक्त्ररिव पूच्चकार ॥ ६ ॥ नभ इति : भो पाठकाः, अत्र युद्धस्थले भटानामतिदारुणाभिरुवोरणाभिः मारय ताडयेत्याधाकाराभिरुक्तिभिस्त्रस्तं भवत् प्रासं गच्छत् नभो गगनं स्वयमेव करालानि भयबायकानि च वाचालानि वाग्बहुलानि वक्त्राणि मुखानि यत्र तैः सुभरवतप्ररूपैः शम्वैः पूच्चकारेव भयानक कोलाहलं चकारेत्यर्थः ॥ ६ ॥ आयोधनं धीरबुधाधिवासं विभीषणं चेति भयातुराशः । रजोऽन्धकारे जडजाधिनाथश्छन्ने न किं गोपतिरेष चाथ ॥ ७ ॥ आयोधनमिति : आयोधनं युद्धमिदं धीराणां धैर्यशालिना बुधानां बुद्धिमताञ्चाधिवासं वासस्थानं यत्र तद्भवति विभीषणं भयवायकञ्चेति किल भया प्रभया तथा भयेनातुराः पूर्णा आशा दिशोऽभिलाषा वा यस्य स जडजानां कमलानां मूर्खाणां वाधिनायः स्वामी गवा किरणानां पशूनां वा पतिरेष सूर्यो रजसा भटानां चरणोत्थितेन पशिना कृतोऽन्धकारस्तस्मिन् किन्न छन्नो जातो अपि तु सर्व एव छन्न इत्यर्थः । “अथाथों च शुभे प्रश्ने साकल्यारम्भसंशये" इति विश्वलोचनः । श्लेषात्मकोत्प्रेक्षालङ्कारः ॥ ७ ॥ हो रहा है, तो भले ही हो कोई परवाह नहीं, हम तो चार चक्रवाले हैं। अतः हमारे राजा जयकुमार ही विजयके स्वामी बनेंगे ।। ५॥ ___अन्वय : भोः अत्र भटानाम् अतिदारुणाभिः उदीरणाभिः त्रस्तं नभः करालवाचालवक्त्रः सुभैरवैः सैन्यरवैः पूच्चकार इति । अर्थ : आकाशने भी योद्धाओंकी भयंकर आक्रमणशीलतासे त्रस्त होकर ( घबराकर ) उस समय सेनाके अत्यन्त भयंकर शब्दोंके व्याजसे पुकार करना शुरू किया ॥ ६॥ अन्वय : अथ च एषः गोपतिः जडजाधिनाथः आयोधनम् धीरबुधाधिवासं विभीषणं ध इति भयातुराशः रजोऽन्धकारे, छन्नः किं न ( बभूव )। ... अर्थ : यह युद्धस्थल तो धोर और बुद्धिमान् लोगोंके निवासके योग्य है मानों ऐसा सोचकर हो जडजोंका (कमलोंका या मूोका स्वामी) गोपति ( बेल हांकनेवाला या किरणोंका स्वामी ) सूर्य डर के मारे उठी धूलके अन्धकारमें छिप गया ।।७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy