SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ४-५ ] अष्टमः सर्गः यून इति : तत्र युद्धपटहं श्रुत्वा यूनस्तरुणस्य पुत्रवतोऽपि चासूनोरपुत्रस्यापि तुल्यतयैव समानरूपत एवाशु तावता पटहश्रवणेन सा कासूर्बभूव अपि तु पुनरसी केवलं तत्र भिवा भिन्नता निवृश्या दर्शनीया बभूव यत्किल नरस्य सा कासूः शक्तिः करे बभूवापि परस्य कातरस्य सा कासूदना वागधर ओष्ठे बभूव ॥ ३ ॥ दूरात् समुत्क्षिप्तभुजध्वजानां रेजुः पताका इव पद्गतानाम् । क्रुधा युधर्थं सरतां रणे खात्तिर्यग्गतायाततयाऽसिलेखाः || ४ || दूरादिति : दूरादेव समुत्क्षिप्ता उत्थापिता भुजा एव ध्वजा येस्तेषां पद्गतानां पत्तीनां कुधा क्रोधेन युधयं संग्रामार्थं रणे युद्धस्थले सरतां खाव् गगनात् तिर्यग्गता आयासाच तासां भावस्तता तथा असिलेखास्तरवारिततयः पताका इव रेजुः । रूपकालङ्कारः ।। ४ ।। ३८३ य एकचक्रस्य सुतोत्र वक्रः स्यान्नश्चतुश्चक्रतयैव शक्रः । जयो जयस्याथ समुन्नताङ्गाश्चीच्चक्रुरित्यत्र जवाच्छताङ्गाः ।। ५ ।। य इति : एकं चक्रं सुदर्शनाख्यं यस्य स एकचक्रस्तस्य सुतोऽकंकीतिः सोऽत्र बो se: ferg risenri चतुः चक्रतयैव तदपेक्षया चतुर्गुणतयैव किल नः शक्रस्वामी जयो जयकुमारः स जयस्य विजयस्य शक्रः स्यादिति किल समुन्नतान्यङ्गानि येषां ते समुन्नताङ्गाः शताङ्गा रथाः अत्र युद्धस्थले घोच्चीत्कारं जयाद्वेगात् चक्रुरिवेन्युत्प्रेक्षालङ्कारः ।। ५ ।। अर्थ : उस युद्ध-ध्वनिको सुनकर वीर तरुण पुत्रवान् और अपुत्रवान् निर्बल बूढ़ो में शीघ्र ही समान रूपसे ही वह विलक्षण कासू ( शक्ति या कायर वाणी ) पैदा हो उठी भेद केवल इतना ही था कि एक ( वीर ) के तो हाथमें कासू या शक्ति संचलित हो उठी तो दूसरे (कायरों ) के होठों पर कायरवाणी ( कासू ) श्री ॥ ३ ॥ अन्वय : रणे क्रुधा युधथं सरतां दूरात् समुत्क्षिप्तभुजध्वजानां पद्गतानां असिलेखा: खात् तिर्यग्गतायाततया पताकाः इव रेजुः । अर्थ : दूरसे ही भुजा रूपी ध्वजा उठाने वाले और युद्धके लिये आगे बढ़नेवाले पैदलोंकी तलवारें आकाशम तिरछी और लम्बी लपटा रही थी, जिससे वे पताकाओं के समान प्रतीत होती थीं ॥ ४ ॥ अन्वय : अथ एकचक्रस्य सुतः अत्र वक्रः स्यात् । चतुष्चक्रतया एव न जयः जयस्य शक्रः स्यात् इति समुन्नताङ्गाः शताङ्गाः जवात् चीच्चक्रुः । अर्थ : इसके बाद उन्नत अंगों वाले शताङ्ग मानी कहते हुए मानों चीत्कार करने लगे कि आज यहाँ एक सुदर्शन चक्रवाले चक्रवर्तीका पुत्र अर्ककीर्ति रुष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy