________________
७३-७४ ]
सप्तमः सर्गः
भूरिश इति । किं वदानि, स भारतभूपभूनं खलु शान्ततां गतः भूरिशोऽनेकप्रकारतया प्रसारिभिरपि मद्वचनैः । कथमिव ? समुद्रस्य वारिभिरौर्ववद् वडवाग्निरिव खलु शान्ततां न गतः। दृष्टान्तालङ्कारः ॥ ७२ ॥ अर्क एव तमसावृतोऽधुना दर्शघस्र इह हेतुनाऽमुना । एत्यहो ग्रहणतां श्रियः प्रिय इत्यभूदपि शुचा सविक्रियः ॥ ७३ ॥
अर्केति । अधुना साम्प्रतमादर्शघस्र आदरणीयो दिवसः स एवेह दर्शघस्रोऽमावास्यादिवसो जातः। अमुना हेतुना कारणेन अर्कः सूर्य एव अर्ककीतिरेव वा तमसा राहुणा कोपेन वाऽऽवृतः, ग्रहणतामुपरागतां पिशाचतां वैति प्राप्नोति, अहो आश्चर्ये । श्रियो. ऽस्माकं शोभायाः प्रियो वल्लभोऽपि शुचा शोकेन सविक्रियो विकारयुक्तोऽभूत् । अथवा अर्को ग्रहणतामेतीति दूतवचनं श्रुत्वा श्रियः सुलोचनायाः प्रियो जयकुमारोऽपि तदा शुचाऽनुशुशोच, पुनः सविक्रियो विकारवानभूत् । श्लेषोऽलङ्कारः ॥ ७३ ॥ संवहन्नपि गभीरमाशयमित्यनेन विषमेण सञ्जयः । केन वा प्रलयजेन सिन्धुवत् क्षोभमाप निलतोऽथ यो भुवः ॥ ७४ ॥
संवहन्निति । जयकुमारस्य विकारमेव विवृणोति कविः-सन् यो जयो जयकुमारो विशालं गभीरमाशयं वहन्नपि दूतोक्तेनानेन विषमेण प्रसङ्गेन क्षोभमाप क्षुब्धो बभूव ।
अर्थ : हे राजन्, क्या बताऊँ ? जिस प्रकार वड़वानल समुद्रके विपुल जलसे भी शांत नहीं होता, उसी प्रकार हमारे द्वारा कहे गये अनेक प्रकारके सान्त्वनाभरे वचनोंसे भी वह शांत नहीं हुआ ।। ७२ ।।
अन्वय : अधुना इह आदर्शघस्र अर्कः एव तमसाऽऽवृतः अहो ग्रहणताम् एति इति अमुना हेतुना शुचा श्रियः प्रियः अपि सविक्रियः अभूत् ।
अर्थ : इसपर जयकुमारने सोचा कि देखो, अमावस्याके दिन सूर्य के समान इस मांगलिक वेलामें तेजस्वी अर्ककीर्ति भी रोषरू राहु द्वारा ग्रस्त होकर ग्रहणभावको प्राप्त हो रहा है ! यह सोचकर सुलोचनाका पति जयकुमार भी कुछ विकारको प्राप्त हुआ ।। ७३ ।।
अन्वय : गभीरम् आशयं संवहत् अपि सञ्जयः इति अनेन विपमेण क्षोभम् आप । अथ यः भुवः निलयः केन वा प्रलयजेन सिन्धुवत् क्षोभम् आप ।
अर्थ : गंभीर आशय धारण करने वाला वह सज्जन जयकुमार भी इस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org