________________
३६२
जयोदय-महाकाव्यम्
[७०-७२
शम्पया स च बलाहकस्तया युक्त एव भविता प्रशस्तया । हे तवार्क परिहारहेतवे इत्युदीर्य स विनिर्गतोऽभवत् ॥ ७० ॥
शम्पयेति । शं कल्याणं पाति स्वीकरोतीति शम्पा सुलोचना । यद्वा विद्युत्, तया प्रसिद्धया स जयकुमारो बलाहको बलस्य स्वागतकारको मेघो वा, स तया प्रशस्तया, युक्त एव भविता भविष्यति । हे अर्क, स तव परिहारहेतवे पराजयायापि भविता किल, इत्युदीर्य स दूतो विनिर्गतो निर्जगाम ॥ ७० ॥ प्रत्युपेत्य निजगौ वचोहरः प्रेरितैणपतिवद्भयङ्करः । दुर्निवार इति नेति नो गिरश्चक्रवर्तितनयो महीश्वरः ॥ ७१ ।।
प्रत्युपेयेति । वचोहरो दूतः प्रत्युपेत्य निजगौ जगाद। हे महीश्वर, हे काशिराज शृणु, चक्रवर्तितनयोऽर्ककोतिः प्रेरितैणपतिवत् क्षुब्सिंहतुल्यो भयङ्करो दुनिवारो निवारयितुमशक्य इति नोऽस्माकं गिरो वाचो नैति न प्राप्नोति, न शृणोतीत्यर्थः ॥ ७१ ॥ भूरिशोऽपि मम संप्रसारिभिरौर्ववन्नृप समुद्रवारिभिः ।' किं वदानि वचनैः स भारत-भूपभून खलु शान्ततां गतः ॥ ७२ ॥
अन्वय : अर्क ! सः च बलाहकः प्रशस्तया तथा शम्पया युक्तः एव भविता ( यः ) तव परिहारहेतवे, इति उदीर्य सः विनिर्गतः अभवत् । ___ अर्थ : 'कुमार ! याद रखिये, वह जयकुमार तो बलाहक अर्थात् मेघके समान बलवान् है । अतः वह शम्पा यानी बिजलीके समान सुखप्रदा सुलोचनासे युक्त जायगा और तुम्हारी पराजयका भी कारण बनेगा'-यह कहकर वह दूत वहाँसे चला गया॥ ७० ॥
अन्वय : वचोहरः प्रत्युपेत्य निजगौ-महीश्वर ! चक्रवर्तितनयः प्रेरितणपतिवत् भयङ्करः दुर्निवारः इति नो गिरः न एति ।
अर्थ : बहाँसे वापस आकर अकम्पनसे दूत कहने लगा-हे राजन् ! अर्ककीति तो भड़काये हुए सिंहके समान दुनिवार हो रहा है। हमारी एक भी नहीं सुनता ॥ ७१ ॥
अन्वय : नृप किं वदानि मम भूरिशः अपि सम्प्रसारिभिः वचनैः सः भारतभूपभूः समुद्रवारिभिः और्ववत् शान्ततां न गतः खलु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org