________________
जयोदय-महाकाव्यम्
[६६-६७ साम्प्रतमिति । रे दूत, पश्याऽऽलोकय, यस्य तनुजा सुरोचना नाम कन्या, वौषधिर्वा स त्वादृशां प्रभुः सुखस्य लता परम्परा तस्याः प्रयोजनात् । तथा सुष्ठु या खलता दुष्टता तस्याः प्रयोजनात् । वरं ददातोति वरदो यो रङ्गः स्थानं ततस्तथा बलदरङ्गतो बलदायक प्रसङ्गतः । अथवा बलस्य सेनाया दलं समूहं गतः प्राप्त इति प्रथमा। स चासौ वृषभो धर्मभावनावान्, बलोवर्दो वाऽभूदिति । वर्तमानार्थे भूतकालक्रियोपादानम् उपहासद्योतनार्थमिति ॥ ६५ ॥ दुश्चिकित्स्यमवधारयन् बुधः साचिजल्पितमनल्पितक्रुधः । सामतः स तु विरामतः सदुत्साहपूर्वकमगाद्वचोऽमृदुः ।। ६६ ॥
दुश्चिकित्स्येति । बुधः स दूतोऽनल्पितधोऽतिकोपवतः अर्ककीर्तेः साचिजल्पितं वक्रोक्ति सामतः शान्तनीत्या दुश्चिकित्स्यं दूरीकर्तुमशक्यमवधारयन् विचारयस्तु पुनर्विरामतोऽन्तसमये सदुत्साहपूर्वकं साहसपूर्ण यथा स्यात्तथा, अमृदु कोमलतारहितं वचो वाक्यमगादुक्तवान्, निम्नरीत्येति शेषः ॥ ६६ ॥ चेतसीति च गतो मदं भवान् कच्चिदस्मि भटकोटिलम्भवान् । नानुजेन भवतः पिताजितः केवलेन किमु चक्रवानितः ॥ ६७ ॥
चेतसीति । कच्चिदहं सम्भावयामि यत्किल भवानहं भटानां रणशूराणां कोटेः परम्पराया लम्भवान् सत्तावानस्मीति चेतसि मदं गर्व गत इति सत्यम् । यदीत्थमेव,
अर्थ : हे, दूत, देखो कि जिनकी पुत्री सुलोचना है, वे तुम्हारे स्वामी महाराज अकम्पन सुख-परम्परा प्राप्त होने तथा यथेष्ट वरदान-भोगी होनेके कारण धर्मभावनावाले हैं । यह प्रशंसात्मक अर्थ है।
__ अन्वय : बुधः सः अनल्पितक्रुधः साचिजल्पितं सामतः दुश्चिकित्स्यम् अवधारयन् तु विरामतः सदुत्साहपूर्वकम् अमृदु वचः अगात् । ___ अर्थ : वह बुद्धिमान् दूत अतिक्रुद्ध अर्ककीर्तिके उन वचनोंको, जो कि उसने जयकुमारके प्रति वक्रोक्ति द्वारा कहे थे, शान्तिमय उपायोंसे दुश्चिकित्स्य जानकर अन्ततः बड़े साहसके साथ निम्नलिखित जोशीले वचन बोलने लगा ।। ६६ ।।
अन्वय : कच्चित् भवान् अहं भटकोटिलम्भवान् अस्मि इति चेतसि मदं गतः । ( किन्तु ) इतः भवत पता चक्रवान् केवलेन अनुजेन न जितः किमु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org