________________
५६-५७ ]
सप्तमः सर्गः
गणमवाप । यतो विग्रहो रण एव ग्रहस्तेन समुत्थिता व्यथा यस्य सः । तदेव समर्थयति - पान्थः पथिकः किं कदापि पथो मार्गाद् उच्चलत्यमार्गं याति, न यातीत्यर्थः ॥ ५५ ॥
प्रेषितश्चर इतोऽवतारण हेतवेऽर्कपदयोः सुधारणः ।
नीरपूर इव संचरन् स वा छिद्रपूरणविधौ विचारवान् ॥ ५६ ॥
३५५
प्रेषित इति । इतोऽवतारणहेतवे मन्त्रिसम्मत्या अर्कपदयोः सुधारणः शुभधारणावांदूतः प्रेषितः । स चरो नीरपूर इव संचरन् छिद्रपूरणविधी बिलभरणे कलहदोषापाकरणे वा विचारवानासीत् ॥ ५६ ॥
चरो
प्राप्य भूभृदुपदेशतः पुनः सज्जवारिनिधिरित्यनुस्वनः । मौलिशोणमणिभिः समं तु विदश्रुकज्जलत आलिखद् भुवि ।। ५७ ।।
प्राप्येति । भूभृदुपदेशतो राज्ञोऽकम्पनस्य उपदेशतः कथनात्, तथा भूभृतो गिरेः य उपदेशः समीपभागस्तस्मात् संचरन्, सज्जा समयानुकूला या वारिर्वाणी सैव निधिर्यस्य सः, तथा सज्जः परिपूर्णत्वात् प्रशस्यो वारिनिधिः समुद्रो येन स एवंभूतश्चरः, पक्षे नीरपूर इति पूर्वेण सम्बन्धः । पुनः कथम्भूतः, अनुस्वनोऽनुकूलः शब्दो यस्य स विद् विद्वान्
व्यथा पैदा हो गयी । ठीक ही है, क्या कभी कोई पथिक उचित मार्ग से हट सकता है ? ।। ५५ ॥
अन्वय : इतः अवतारणहेतवे अर्कपदयोः सुधारणः चरः प्रपितः । सः नीरपूर: इव संचरन् वा छिद्रपूरणविधौ विचारवान् ( आसीत् ) ।
अर्थ : इधर से मंत्रियोंसे सलाह कर झगड़ा शांत करनेके लिए अच्छी धारणावाला दूत अर्ककीर्तिके पास भेजा गया । वह दूत नीरके प्रवाह के समान छिद्र पूरा करने ( कलह मिटाने ) में विचारशील भी था ।। ५६ ।।
अन्वय : पुनः भूभृदुपदेशत: ( सञ्चरन् ) अनुस्वनः सज्जवारिनिधिः विद् ( तत्र ) प्राप्य तु मौलिशोणमणिभिः समं अश्रुकज्जलतः भुवि आलिखत् ।
अर्थ : इसके बाद समयानुकूल वाणीका धनी वह दूत राजा अकम्पनकी ओरसे अर्क कीर्ति के पास पहुँचा और उसने अपने मुकुट में लगी लालमणियों के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org