________________
३६-३८ ]
सप्तमः सर्गः
सेवकस्य समुत्कर्षे कुतोऽनुत्कर्षता सतः |
वसन्तस्य हि माहात्म्यं तरूणां या प्रफुल्लता ।। ३६ ।।
सेवकस्येति । सेवकस्य अनुचरस्य समुत्कर्षे समुन्नतौ सतः स्वामिनोऽनुत्कर्षता अवनतिरवज्ञा वा कुतः कथं भवेत् ? हि यस्मात्तरूणां वृक्षाणां या प्रफुल्लता विकासशीलता तत्सर्वं वसन्तस्यैव माहात्म्यमस्ति । दृष्टान्तालङ्कारः ॥ ३६ ॥
३४७
राज्ञो राजश्रियः श्रीमन्नाथसोमाभिधे भुजे ।
अत्यये च तयोश्चासावकिञ्चित्करतां व्रजेत् ॥ ३७ ॥
राज्ञ इति । हे श्रीमन्, अर्ककीर्ते, राज्ञो भरतस्य राजश्रियः नाथसोमाभिधे नाथसोमसंज्ञके द्वे भुजे स्तः । तयोरत्यये नाशे सति असौ अकिञ्चित्करतां निरर्थकतां व्रजेदिति चिन्तनीयम् ॥ ३७ ॥
प्रजायाः
प्रत्युपायेऽस्मिन्न पायमुपपद्यते ।
भवादृशो भ्रमादन्यः प्रत्ययः को निरत्ययः || ३८ ॥
अर्थ : हे कुमार ! आप यमके शत्रु और जयशील भी हैं । अतः इस समय आप क्षमा त्यागकर क्रोधवश जयकुमारको जीत लेंगे, इसमें कोई संशय नहीं । ( किन्तु कुछ सोचें तो सही ) ।। ३५ ।।
अन्वय : सेवकस्य समुत्कर्षे सतः अनुत्कर्षता कुतः ? हि तरुणां प्रफुल्लतायां वसन्तस्य माहात्म्यम् ( भवति ) ।
अर्थ : सेवककी उन्नति में स्वामीको अवज्ञा कैसी? क्योंकि वृक्षोंपर जो फूल आते हैं, उससे वसन्तका ही माहात्म्य प्रकट होता है || ३६ ||
अन्वय : श्रीमन् ! राज्ञः राजश्रियः नाथसोमाभिधे भुजे । तया: अत्यये व अ च अकिञ्चित्करतां व्रजेत् ।
Jain Education International
अर्थ : हे श्रीमन् ! दूसरी बात यह सोचिये कि नाथवंश और सोमवंश ये दोनों महाराज भरतकी राज्यश्री की दो भुजाएँ हैं । अतः इनका नाश हो जानेपर वह कुछ भी नहीं रह जायगा, निरर्थक हो जायगा ॥ ३७ ॥ ॥
अन्वय : ( कुमार ! ) भवादृशः प्रजायाः अस्मिन् प्रत्युपाये अपायं उपपद्यते, ( तहि अत्र भ्रमाद् अन्यः निरत्ययः कः प्रत्ययः ।
For Private & Personal Use Only
www.jainelibrary.org