SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४२ जयोदय-महाकाव्यम् [ २३-२५ धारापातस्तु दूरेऽस्तु यन्मे सत्कन्धरात्मनः । तदेतद्राजहंसानां गर्जनं हि विसर्जनम् ॥ २३ ॥ धारापातस्त्विति । यन्मे सत्कन्धरात्मनः शोभनप्रीवस्य, पक्षे शोभनजलधरस्य च, धारापातः करवालधारापतनं, पक्षे सलिलासारवृष्टिस्तु दूरेऽस्तु, मे गर्जनं सिंहनादः, पक्षे मेघस्तनितञ्च, तदेतद् राजहंसानां नृपमरालानां पलायनकर, पक्षे कलहंसानां मानसगमनविधायकमस्तीति भावः ॥ २३॥ निःसार इह संसारे सहसा मे सप्तार्चिषः । नाथसोमाभिधे गोत्रे भवेतां भस्मसात्कृते ॥ २४ ।। निःसार इति । इह निःसारे साररहिते संसारे जगति मे सप्ताचिषः क्रोधाग्नेः प्रभावेणेति शेषः। नाथ-सोमो अभिधा ययोस्ते नाथसोमाख्ये गोत्रे कुले भस्मसाद् भवेताम् ॥२४॥ तस्य मे पुरतस्तावत् स्थिते षत्वेन वा जने । के खगं रेफसं लब्ध्वा तर्षो भवतु जीवने ॥ २५ ॥ अन्वय : यत् मे सत्कन्धरात्मनः धारापातः, सः तु दूरे अस्तु । तद् एतत् मे गर्जनं राजहंसानां विसर्जनं हि । अर्थ : मैं अच्छे कंधोंवाला होनेसे शोभन जलके धारक मेघके समान हूँ। अतः मेरे खङ्गकी पतनरूपा जलधाराकी बात तो दूर है। किन्तु मेरा तो गर्जन सुनकर निश्चय ही राजहंस भाग जाते हैं । यहाँ श्लेषालंकार है ।। २३ ॥ अन्वय : इह निःसारे संसारे मे सप्ताचिषः सहसा नाथसोमाभिधे गोत्रे भस्मासात्कृते भवेताम् । अर्थ : साररहित इस संसारमें मेरे क्रोधाग्निके प्रभावसे नाथवंश और सोमवंश निश्चय हो नष्ट हो जायंगे ।। २४ ।। अन्वय : तस्य मे पुरतः तावत् षत्वेन वा जने स्थिते के रेफस खड्गं लब्ध्वा जीवने तर्षः भवतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy