________________
३४०
जयोदय-महाकाव्यम्
[१९-२० दहनेति । इत्थं तस्य दुर्मर्षणोक्तवाग्रूपस्य वहनस्य प्रयोगेण दारुणानीङ्गितानि यस्य स भयङ्करचेष्टः स चक्रिसुतः काष्ठवद्दग्धः प्रज्वलितः। ततस्तन्मुखान् अङ्गारा वह्निस्फुलिङ्गा इव गिरो वाण्यो व्यक्ताः प्रकटीभूताः ॥ १८॥
प्रत्यङ्मुखे सखे स्यन्दे रोषो मे प्रागिहोदितः । हन्तुं किन्तु स कं मन्तुं युक्तः स्यादिति संवृतः ॥ १९ ॥
प्रत्यङिति । हे सखे, इह स्वयंवरे स्यन्दे सुलोचनारथे प्रत्यङ मुखेऽस्मद्विपरीते सति प्राक् पूर्वमेव मे रोषः क्रोध उदितः समुत्पन्न आसीत् । किन्तु स कं मन्तुमपराधमपराधिनमित्यर्थः, हन्तं युक्तः स्यादित्यालोच्य मया संवृतोऽवरुद्धः ॥ १९ ॥
अहो प्रत्येत्ययं मूढ आत्मनोऽकम्पनाभिधाम् । नावैति किन्तु मे कोपं भूभृतां कम्पकारणम् ॥ २० ॥
अहो इति । अहोऽयं मूढोऽकम्पन आत्मनोऽकम्पनाभिषां प्रत्येति विश्वसिति, किन्तु भूभृतां पर्वतानां राज्ञां वा कम्पकारणं वेपथुनिमित्तं मे कोपं नावैति नो जानाति ॥ २० ॥
अर्थ : इस प्रकार दुर्मर्षणके वाग-रूप अग्निके प्रयोगसे, जो कि दारुणेङ्गित अर्थात् दुष्ट चेष्टावाला होनेसे काष्ठमय था, वह चक्रीका पुत्र धधक उठा । अतः उसके मुखसे अङ्गारके समान निम्नलिखित शब्द निकल पड़े ॥ १८॥
अन्वय : सखे ! इह प्रत्यङ्मुखे स्यन्दे प्राग् एव मे रोषः उदित: ( अभूत् )। किन्तु सः कं मन्तुं हन्तुं युक्तः स्यात् इति ( मया ) संवृतः । ___ अर्थ : हे सखे ! मुझे क्रोध तो उसी समय आ गया था, जब कि सुलोचनाका रथ मुझे छोड़ आगे बढ़ा । लेकिन उस समय मैंने उसे दबा लिया; क्योंकि मैंने सोचा कि न जाने इस रोषका शिकार कौन बन जाय ? ॥ १९ ॥
अन्वय : अहो अयं मूढः आत्मनः अकम्पनाभिधां प्रत्येति । किन्तु भूभृतां कम्पकारणं मे कोपं न अवैति । ___ अर्थ : आश्चर्य है कि यह मूढ अपने नाम अकम्पनके अर्थपर विश्वास करता है । किन्तु मेरा क्रोध पर्वत-से अचल राजाओंको भी कंपा देनेवाला होता है, इसे नहीं जानता ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org