________________
१२८-१२९ ] षष्ठः सर्गः
३२९ जय इह सुलोचनाया एतदुदन्तं दिगङ्गना नेतुम् ।
दुन्दुभिनादः सहसा समजायत समुदितो हेतुः ।। १२८ ॥ जय इहेति । दुन्दुभिनादमेव प्रकारान्तरेण वर्णयति-अस्मिल्लोके जयः सुलोचनाया आसीत्, सुलोचनाया विजयोऽभूत् । यद्वा, जयकुमारः प्राणनाथोऽभूदित्येष उदन्तो वृत्तान्तस्तं दिश एवाङ्गना दिगङ्गनास्ताः प्रति नेतुं प्रापयितुं सहसाऽनायासेन समुदितो हेतुः समजायत दुन्दुभिनादः । लोके यथा विवाहादौ मङ्गलगीतार्य ललनाः सूच्यन्ते तद्वदेव सर्वतो दुन्दुभिनादोऽभूत् ॥ १२८ ॥
मुखश्रियः संजग्मुनिखिलानामवनिपालबालानाम् । अनुकर्तुमिव च पद्मां जयमुखपमं प्रति निदानात् ॥ १२९ ॥ मुखश्रिय इति । निखिलानामवनिपालबालानां तत्रागतानां राजकुमाराणामककीतिप्रभृतीनां मुखश्रियः आननकान्तयो निदानानियमेन जयस्य मुखपन प्रति संजग्मुरगमन् । पद्मा लक्ष्मीरूपां सुलोचनामनुकर्तुमिव तदनुकरणशीला भवत्यस्ताः मुखश्रियोऽपि प्रफुल्लपतुल्यं जयकुमाराननकमलमेवा आश्रयन् । यतः पप्रमेव लक्ष्मीनिवासस्थानम् । एवञ्च अन्येषां भूपकुमाराणां मुखानि निष्प्रभाणि जातानि, इत्याशयः ॥ १२९ ॥
अन्वय : इह जयः सुलोचनायाः ( समभवत् ), एतद् उदन्तं दिगङ्गनाः नेतुं सहसा समुदितः हेतुः दुन्दुभिनादः समजायत । ___ अर्थ : यहाँ सुलोचनाकी जय हो गयी, यह वृत्तान्त दसों दिशारूण अंगनाओंके पास पहुँचाने ( सारे विश्व में फैलाने ) के लिए यह दुंदुभिनाद समुचित हेतु बन गया, अर्थात् विश्वभर डुग्गो पीट गयी ॥ १२८॥
अन्वय : च निखिलानां अवनिपालबालानां मुखश्रियः पद्माम् अनुकतुंम् इव निदानात् जयमुखपद्मं प्रति संजग्मुः ।
__ अर्थ : और उसी समय जितने भी राजकुमारोंके मुखोंकी शोभाएं थीं, मानो लक्ष्मीस्वरूपा उस सुलोचनाका अनुसरण करती हुई जयकुमारके मुंहपर आ गयीं। अर्थात् दूसरे सभीके मुख फीके पड़ गये और जयकुमारका मुख अधिक प्रसन्न हो उठा ॥ १२९ ॥
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org