________________
१२४-१२५ ]
षष्ठः सर्गः
३२७
तस्योरसीति । बाला सुलोचनाऽधुना नतवदना नम्रमुखी लज्जयेत्यर्थः। कीदृशी, कम्प्रो वेपमानः करो यस्याः सा कम्पितहस्ता, आत्मनोऽङ्गीकरणस्याक्षराणां मालामिव शोभमानां तां वरणस्रजं निश्चलां स्थिरां तस्य जयकुमारस्योरसि वक्षसि लिलेख चिक्षेपेत्यर्थः । यथा काचिद् बालाऽऽरम्भे वर्णमालां कम्पमानकरेण समुल्लिखति तथैव ।। १२३॥
सम्पुलकिताङ्गयष्टेरुद्ग्रीवाणीव रेजिरे तानि । रोमाणि बालभावाद्वरश्रियं द्रष्टुमुत्कानि ॥ १२४ ॥
सम्पुलकितेति । सम्पुलकिता रोमाञ्चिता अङ्गयष्टिर्गात्रलता यस्याः सा, तानि रोमाणि बालभावात् केशरूपत्वात् शैशवाद्वा, वरस्य श्रीः शोभा तां द्रष्टुमुत्कानि सोत्कप्ठानीव उद्ग्रीवाणि रेजिरे। यथा वरशोभामवलोकितु बाला उद् ग्रीवा भवन्ति तथेति भावः ।। १२४ ॥
वरमाल्यस्पृशि हस्ते जयस्य सिप्रं चकार स हृदयभूः । सूत्रमिव भाविकन्यादानजलस्याऽऽविरेतदभूत् ॥ १२५ ॥ वरमालेति । स हृदयभूः कामो जयस्य वरमाल्यं स्पृशतीति वरमाल्यस्पृक् तस्मिन् हस्ते. माल्यमार्दवानुभवाथं व्यापारिते करे सिप्र' प्रस्वेदं चकार । तदेतत् प्रस्वेदजलं सात्त्विकभावोत्थं किल भाविनः कन्यादानजलस्य सूत्रं सूचकमिवाऽऽविरभूत् ॥ १२५ ।।
अर्थ : अब नतवदना बाला सुलोचनाने अपना स्वीकार करनेकी अक्षरमालाके समान वह निश्चल वरमाला काँपते हाथोंसे जयकुमारके गले में पहना दी ॥ १२३ ॥
अन्वय : सम्पुलकिताङ्गयष्टेः तानि रोमाणि बालभावात् वरश्रियं द्रष्टुम् उत्कानि उद्ग्रोवाणि इव रेजिरे।
अर्थ : तत्काल पुलकित-सर्वाङ्गा उस सुलोचनाके बालभाव धारण करनेवाले रोम-रोम वरकी शोभा देखने के लिए ही मानो गर्दन ऊपर कर खड़े हो गये । अर्थात् सुलोचनाके शरीरभर रोमांच हो उठे ।। १२४ ।।
अन्वय : स: हृदयभूः वरमाल्यस्पशि जयस्य हस्ते सिप्रं चकार । एतत् भाविकन्यादान जलस्य सूत्रम् इव आविरभूत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org