________________
३२६
जयोदय-महाकाव्यम्
[१२२-१२३
मोदकमिति । पुनर्जयकुमारमुखावलोकनकृतसङ्कल्पा सा सुलोचनाया दग् दृष्टिर्यत् किल जयकुमारस्य मुखं तन्मोदकं प्रसक्तिकरम्, यद्वा मोदकं लड्डुकं चूरमूरमिति वा, सख्या वाग्देव्या आस्यं मुखं तच्च सुष्टूपकल्पितं सूपकल्पितम्, यद्वा सूपाख्यव्यञ्जनतया कल्पितं, दालोति नाम, तदपि तादृगेव रसितवती यथा जयमुखं, द्वयमपि जयमुखं सखीमुखं च सामि, अर्धमधं दृष्टवतीत्यर्थः । क्षुधितेव बुभुक्षितेव, यथा बुभुक्षिता स्वाद्वपि चूरमूरं दालीयुतमेव भुङक्त तथा ॥ १२१॥
इत्यत्र कुमुदवत्याः करः कुसुममाल्यसम्पदा स्फीतः । ननु सन्ध्ययेव सख्या जयस्य मुखचन्द्रमनुनीतः ॥ १२२ ॥ इत्यत्रेति । इत्यत्र अस्मिन्नवसरे को भुवि मुद्वत्या हर्षयुक्तायास्तस्याः सुलोचनायाः करः, यद्वा कैरविण्याः करः शाखारूपः, कुसुमानां माल्यं तस्य संपदा शोभया स्फीतः प्रशस्यः सायन्तनया सन्ध्ययेव तया सख्या वाण्या कृत्वा जयस्य नाम कुमारस्य मुखमेव चन्द्र आह्लादकत्वात्, तमनु समीपं नीतः प्रापितो ननु ॥ १२२ ॥
तस्योरसि कम्प्रकरा मालां बाला लिलेख नतवदना । आत्माङ्गीकरणाक्षरमालामिव निश्चलामधुना ॥ १२३ ॥
अर्थ : अब सुलोचनाने जयकुमारका मुख, जो प्रसन्नता देनेवाला लड्डूके समान था, और देवीका मुख सूपकल्पित यानी दालके समान सुन्दर था, दोनोंको साथ साथ आधा-आधा चखा, देखा। जैसे भूखा व्यक्ति दालके साथ चूरमा मिलाकर खाता है, वैसे ही उसने दोनोंको एक साथ देखा ।। १२१ ।।
अन्वय : इति अत्र कुमुदवत्याः कुसुममाल्यसम्पदा स्फीतः करः सन्ध्यया इव सख्या जयस्य मुखचन्द्रम् अनुनीतः ननु ।
अर्थ : इस अवसरपर कुमुदवतो यानी प्रसन्नचित्त उस सुलोचनाके वरमालायुक्त प्रशस्त हाथको संध्याकी तरह उस सखीने जयकुमारके मुखरूपी चन्द्रमाके पास प्राप्त करा दिया ॥ १२२ ।।
अन्वय : अधुना नतवदना कम्प्रकरा बाला आत्माङ्गीकरणाक्षरमालाम् इव निश्चलां मालां तस्य उरसि लिलेख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org