________________
३२० जयोदय-महाकाव्यम्
[ १०९-११० णादिप्रायश्चित्तभाक् । तथा शुनि वित्तं प्रसिद्धं यश इव यशो यस्य तथाभूतो जातः ॥ १०८ ॥
देशान्तरेऽस्य कीर्तिबहुवृद्धे मागिरौ पुनर्महिला । नवयौवना त्वमुचिता निःशत्रोः शूरता शिथिला ॥ १०९ ।।
देशान्तरेति । हे बाले, अस्य प्रियासु या कीतिः सा तु देशान्तरे गत्वा तिष्ठति, दूरदेशेष्वपि व्याप्ताऽस्ति । अन्तरशब्दस्य व्याप्त्यर्थकत्वात् अन्यार्थकत्वाच्च । मा च गीश्च मा-गिरौ लक्ष्मी-सरस्वत्यौ बहुवृद्ध, अतिशयवृद्धिं गते जरत्यौ वा । नि.शत्रोः शत्रुशून्यस्यास्य शूरताऽपि शिथिला जाता । त्धं पुनर्नवयौवनाऽसि, ततस्त्वमेवास्य महिला प्रधाना पट्टराज्ञी भवितुमुचितेत्याशयः ॥ १०९ ॥
शोणोधरस्तु बाले सरस्वती तन्मयं मुखं चाथ । चित्रं जडतातिगतोऽसौ जातो वाहिनीनाथः ।। ११० ।।
शोणेति । हे बाले, इदमपि चित्रमाश्चर्यम्, यदसौ नरेशो जडतामतिगतो मूर्खतारहितः, वाहिनीनां सेनानां नाथः सेनानीवर्तते । यद्वा, जडतातो वारिरूपतातोऽतिगतो दूरवर्ती भवन्नपि वाहिनीनां नदीनां नाथो वर्तते । यतोऽस्य मुखं सरस्वती, तन्मयं वाङ्मयमेव भवति, यद्वा सरस्वतीनदीमयमस्ति। अधरश्च शोणो लोहितवर्ण:, शोणनामनदरूपो वा ॥ ११० ॥ हटा देनेपर 'दण्डभृत्' ( दण्ड भोगनेवाला ) तथा विश्वके 'वि' को हटा देनेपर 'श्वावित्तयशा' ( कुत्तेके समान यशवाला ) रह जाता है ॥ १०८।।
अन्वय : अस्य कीतिः देशान्तरे, मागिरौ च बहुवृद्धे । पुनः निःशत्रोः अस्य शूरता शिथिला । किन्तु त्वं नवयौवना, ( अतः ) अस्य महिला उचिता।
अर्थ : इसके चार स्त्रियाँ थीं। उनमें से पहली कीति तो देशान्तरोंमें चली गयो । लक्ष्मी और वाणी दोनों अत्यन्त वृद्ध हो चली। चौथी शूर-वीरता भी शत्रुओंके अभावसे शिथिल पड़ गयी। किन्तु तू नवयौवना है, इसलिए तुझे इसकी अर्धाङ्गिनी बन जाना उचित है ।। १०२ ॥
अन्वय : बाले ! अस्याः अधरः तु शोणः । अथ च मुखं सरस्वती तन्मयम् । असो वाहिनीनाथः, किन्तु जडतातिगतः इति चित्रम् ।
अर्थ : हे बाले ! यह चक्रवर्तीका सेनापति है जो मूर्खतासे रहित अद्भुत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org