________________
१०८ ]
षष्ठः सर्गः
विद्यते। कालिन्दीजलमपि श्यामलमिति प्रसिद्धम् । अस्य यशसः ख्यातिः शौकल्यप्रसिद्धिदिनी चित्तालावकरत्वात् श्वेतजला गङ्गा विद्यते । पुनरस्य वृद्धभ्य उदयो यस्याः सा वृद्धोदया बुद्धिरेव सरस्वती विद्यते । सरस्वत्यवि वृद्ध उदय जलोत्पत्तिर्यस्याः सैवंभूताऽस्ति । इयं बुद्धिरूपा सरस्वती एनं नृपं प्रयागमेतन्नामधेयं तीर्थराजं निबध्नाति रचयति इत्याशयः । लोकेऽपि गङ्गा-यमुना-सरस्वतीनां सङ्गमः प्रयाग इति सुप्रसिद्धम् ॥ १०७ ॥
सुन्दर्यासक्तमनाः कोदण्डभृदेष विश्ववित्त यशाः । अयमिव सहसामुष्य च शत्रुमुक्तादिवर्णवशात् ॥ १०८॥
सुन्दर्येति । एष सुन्दरः कोदण्डभृत् धनुर्धारी धनुविद्यानिपुण इत्यर्थः । विश्वस्मिल्लोके वित्तं प्रसिद्धं यशः कीर्तिर्यस्य सः। मुक्तादीनां मौक्तिकप्रभृतीनां वर्णः शोभालङ्करणात्मिका, तद्वशात् तेन कारणेन परमसुन्दरतया कृत्वा सुन्दरीषु युवतिषु आसक्तं संलग्नं मनो यस्य सः, एष यशस्वितया शोपेण सौन्दर्येण च योग्यतापन्नोऽस्ति । अस्य शत्रुरपि मुक्तादिवर्णवशात् मुक्तः परित्यक्त आदिवर्णो द्विजाद्विज-वर्णद्वयस्य मध्ये द्विजभावो येन सः, तस्य भावस्तस्मात् सचिन्तत्वेन सन्ध्यादिकर्मशून्यतया शूद्ररूपत्वादिति भावः। यद्वा मुक्त आदिवों येन त्यक्तब्राह्मणभावस्तद्वशात् क्षत्रियभावाद् अस्यापि क्षत्रियत्वाद् अयमिवैवास्ति । तथा मुक्त आदिभूतो वर्णोऽक्षरं सुन्दर्याविष पदेषु तद्वशादित्यर्थे, दयासक्तमनाः, भयभीततया गिरिगुहासक्तः सनातः। तथा दण्डभृत्, कोषापहर
अर्थ : इसके हाथकी तलवाररूप जलप्रवाह तो यमुना नदी है ( कारण तलवार यमुनाकी तरह काली होती है ) और इसकी यशको प्रसिद्धि गंगा है । वृद्धोंद्वारा स्तुत की गयी वाणीरूपा सरस्वती नदी इन दोनोंको प्राप्तकर यहाँ प्रयाग बना देती है ।। १०७॥
अन्वय : एषः सुन्दर्यासक्तमनाः कोदण्डभृत् च विश्ववित्तयशाः। अमुष्य शत्रु: मुक्तादिवर्णवशात् सहसा अयम् इव ( अस्ति ) ।
अर्थ : यह जयकुमार सुंदरियोंमें आसक्तचित्तवाला है। कोदंड ( धनुष ) धारण करता और विश्वप्रसिद्ध यशवाला है। किन्तु इसका वैरी भी इसके समान ही है, केवल प्रारम्भका अक्षर उसके पास नहीं होता। अर्थात् सुंदरीमेंसे 'सु' हटा देनेपर 'दर्यासक्तमनाः' ( गुफाओंमें रहनेवाला ) और कोदण्डसे 'को'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org