SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१५ ९९-१०० ] षष्ठः सर्गः __ ये य इति । अत्र स्वयंवरे ये ये धराधीश्वराः समुपायाताः सम्प्राप्तास्ते सर्वेऽपि चतुरया निपुणया अनया देवतया रयाद्वेगात् कोर्तिताः प्रशंसिताः ॥ ९८ ॥ युक्तिमिताऽथ कुतः स्यादुक्तेष्वपि पार्थिवेषु रसवश्या । चपलात्मनो मनस्या मेघेश्वरसम्पदस्तस्याः ।। १९ ॥ युक्तिमितेति । अथ मेघेश्वरस्य जयकुमारस्य सजलघनस्य वा सम्पत्सम्पत्तिस्तस्याः। यद्वा मेघेश्वर एव सम्यक् पदं स्थानं यस्यास्तस्याः। चपला नाम लक्ष्मीविद्युद्वा, चपलाया आत्मा स्वरूपमिव आत्मा यस्यास्तस्या अतिशयकान्तिमत्यास्तस्याः सुलोचनायाः, रसवश्या रसः शृङ्गाराख्यो जलात्मकश्च, तस्य वश्या मनस्याभिलाषा। सा खलूक्तेष्वपि पार्थिवेषु, पृथ्वीविकारेषु वा युक्तिमिता संयोगमवाप्ता कुतः स्यान्न कुतोऽपीत्यर्थः॥ ९९ ॥ तत्तद्विरागमुदितं शिविकाधास्थानवाहिनो ददृशुः । अध्युषित - नृपति -मलिनानना- नुलिङ्गादतश्चकृषुः ॥ १०० ।। तत्तदिति । शिविकाधास्थानं वहन्ति ये ते यानवाहका अध्युषिता उपविष्टा ये नृपतयस्तेषां मलिनानि म्लानानि यान्याननानि तेषामनुलिङ्गात् अनुमानात् उदितमुत्पन्न तत्तद्विरागमरुचि ददृशुः । अतो यानमग्रे चकृषुः कृष्टवन्तः ॥ १० ॥ अर्थ : इसी प्रकार और भी राजाओंके जो पुत्र यहाँ स्वयंवर-सभामण्डपमें उपस्थित हुए थे, उन सभीका चतुर विद्यादेवीने कुशलताके साथ शीघ्रतापूर्वक वर्णन किया ॥९८॥ अन्वय : अथ मेघेश्वरसम्पदः चपलात्मनः तस्याः रसवश्या मनस्या उक्तेषु अपि पार्थिवेषु युक्तिमिता कुतः। अर्थ : किन्तु मेघेश्वर जयकुमारको सम्पत्ति और अत्यन्त कान्तिमती उस सुलोचनाकी शृङ्गारपरवश अभिलाषा विशेषरूपसे वर्णित भी किसी अन्य राजामें संयुक्त कैसे हो सकती है ? ॥ ९९ ।। अन्वय : शिविकाधःस्थानवाहिनः अध्युषितनृपतिमलिनाननानुलिङ्गात् तत्तद्विरागम् उदितं ददृशुः, च अतः चकृषुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy