________________
९४-९६ ]
षष्ठः सर्गः पश्यैतस्यैतादृग रूपं शुचि रुचिरमग्रतो गण्यम् ।
इतरस्य जनस्य पुनर्लावण्यं भवति लावण्यम् ॥ ९४ ॥ पश्येति । हे सुन्दरि, एतस्य भूपस्य, एतादृक् शुचि विशदं, रुचिरं मनोज्ञम्, अत एवाग्रतो गण्यं सर्वोत्तमं रूपं पश्य विलोकय । अस्य सुषमापेक्षया इतरजनस्य लावण्यं सौन्दर्य लावण्यं लवणभावं क्षारभूतं भवति प्रतीयते । अतोऽप्रतिमसौन्दर्योऽयं वरणार्ह इत्याशयः ॥ ९४ ॥
कुन्ददतीसंसदि यद्वैरिमुखं भवति अपि कुमुदवबन्धुः ।
शनकैः कुमर्पयित्वाऽमुष्याग्रे केवलं हि मुदबन्धुः ॥ ९५ ।। कुन्देति । यवैरिणामाननं कुं शब्दं ददतीति कुन्ददत्यः संलापकर्व्यः, अथवा कुन्दकुसुमानीव दन्ता यासां ताः कुन्ददत्यस्तासां युवतीनां संसदि सभायां कुं स्थानमाप्त्वैव कुमुदबन्धुश्चन्द्रतुल्यं भवति, प्रसन्नं भवतीत्यर्थः। तदपि पुनरमुष्य अवनिपतेरग्रे शनकैहि सहजतयैव कुं निजां भुवमर्पयित्वा त्यक्त्वा पुनः कोरभावात् केवलं मुदबन्धुर्मुदो हर्षस्य अबन्धुः प्रसादरहितं मलिनमेव जायत इत्यर्थः ॥ ९५ ॥ विलसति कर्कन्दुगणः किमिति न कुमुदाशयश्च संकुचति । विनतो भवति समुद्रो राज्ञि किलास्मिन् पुनर्लसति ॥ ९६ ॥
अन्वय : एतस्य एतादृक् रूपं पश्य यत् शुचि रुचिरम् अग्रतो गण्यम् । इतरस्य जनस्य पुनः लावण्यं लावण्यं भवति ।
अर्थ : सुन्दरि, इसके रूपको देखो जो देखने में बड़ा ही रुचिकारक है और सबसे अग्रगण्य है। दूसरोंका लावण्य तो इसके सामने लावण्य ( नमक ) मात्र प्रतीत होता है ।। ९४ ॥
अन्वय : यवैरिमुखम् अपि कुन्ददती-संसदि कुमुदबन्धुः भवति, तत् अपि अमुष्य अग्रे शनकैः कुम् अर्पयित्वा मुदबन्धुः भवति ।
अर्थ : जिस वैरीका मुख कुन्दसमान दांतवाली स्त्रियोंकी सभामें कुमुदबंधु अर्थात् चन्द्रमा बनकर रहता है, वही इस राजाके आगे अनायास पृथ्वी अर्पणकर कुकाररहित मुद्-( अबन्धुमात्र ) रह जाता है, फीका पड़ जाता है ॥९५॥
अन्वय : पुनः अस्मिन् किल राज्ञि लसति कर्कन्दुगणः किम् इति न विलसति । कुमुदाशयः च किम् इति न सङ्कुचति तथा समुद्रः विनतः भवति ।
४० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org