________________
८६-८७ ]
षष्ठः सर्गः
ख्याता भवन्ति । साधूनां मध्ये तव गुणाः सौन्दर्यादयस्ते वर्णेन वर्णनेन ककारादिनानाजातीया नेतुं योग्या वर्णनीयास्तद्भावेन कृत्वा साधूनां सज्जनानां कर्णावन्ति गच्छन्तीति कर्णाटा भवन्ति । तस्मात्वममं स्वीकुवित्यर्थः ॥ ८५ ॥
तनुते तपर्तुमेतत्प्रतापतपनो द्विषत्स्थले सुजनि । नयनोत्पलवासिजलैः प्रपां ददात्यरिवघूर्व्रतिनी ॥ ८६ ॥
३०९
तनुत इति । यथा व्रतिनी विधवा विश्वमपि सजलं करोमीति प्रतिज्ञावती वा तपतु ग्रीष्मसमयं तपस्य धर्मस्यतुं वा । यद्वा नीरसपरिणामं तपश्चरणयोग्यसमयं वा तनुते अस्य नृपस्य प्रताप एव तपनस्तेजः सूर्यो द्विषतां स्थलं शत्रुदेशस्तस्मिन् ग्रीष्मतु तनुते । अत एव हे सुजनि, अस्यारिवधूर्वतिनी नियमवती सती तथैव नयन एवोत्पले तयोर्वासिभिर्जलेर प्रवाहैः प्रपां जलशालां ददाति, अनेन शत्रवो व्यापादिताः, अतस्तन्नार्यो रुदन्तीत्यर्थः ॥ ८६ ॥
नहि भवति भवति मदनः प्रवर्तमानेऽत्र कान्तिमत्तन्तुः । दृश्यतमोऽयं बाले कुसुमेषुरदृश्य इति किन्तु ॥ ८७ ॥
नहीति । हे बाले, भवतीति भवच्छन्दस्य सप्तम्येकवचनम् भवति राज्ञि वर्तमाननुपे मदनः कामोऽपि कान्तिमत्तनुः शोभितशरीरो न भवति, अस्य सौन्दर्यापेक्षया कामस्तुच्छ
साथ समानता रखनेवाली है । जैसे तेरे गुण वर्णनके योग्य होकर साधुओंके कानोंतक पहुँचनेवाले हैं, वैसे ही इस राजाके गुण भी कर्णाट- देशतक फैलते हैं । अर्थात् यह कर्णाटक देशका राजा है ।। ८५ ।।
अन्वय : सुजनि ! एतत्प्रतापतपनः द्विषत्स्थले तपतुं तनुते । व्रतिनी अरिवधूः नयनोत्पलवासिजलैः प्रपां ददाति ।
अर्थ : हे सुलोचने ! इसका प्रतापरूपी सूर्य शत्रुओंके देशोंमें सदा हो ग्रीष्मऋतु बनाये रखता है । उन शत्रुओं की विधवा स्त्रियाँ अपनी आँखों के आँसुओं के जलसे प्याऊ लगाये रखती हैं ॥ ८६ ॥
अन्वय : बाले ! अत्र भवति प्रवर्तमाने मदनः कान्तिमत्तन्तुः नहि भवति । अयं दृश्यतमः, किन्तु कुसुमेषुः अदृश्यः इति ।
अर्थ : बाले ! इस राजाके समक्ष काम भी कान्तिमय देह नहीं, तुच्छ है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org