________________
३०८
जयोदय-महाकाव्यम्
[८४-८५
___ तामिति । विमानधुर्या जना अतः प्रकृतनृपादपरमितरं नृपं प्रति तामभिरामां मनोहरां बालां निन्यः नीतवन्तः। यथाऽधःप्रवृत्त्यादिनामका आगमोक्ता करणपरिणामास्ते रमन्ते योगिनो यस्यां सा समन्ताद् रामाऽभिरामा तां मति चित्तपरिणति मिथ्यात्वात् अतत्त्वश्रद्धानात्मकादाकृष्य सम्यक्त्वं तत्त्वश्रद्धानभावं नयन्ति ॥ ८३ ॥
एकैकमपूर्वगुणं हित्वा परमपरमवनिपतिं यान्ती । पुनरप्यभाणि बुद्धया सा यस्या अद्भुता कान्तिः ।। ८४ ।। एकैकमिति । यस्या अद्भुता विचित्रा कान्तिः शोभा वर्तते एवंभूता सा सुलोचना, अपूर्वा अद्भुता गुणाः शौर्यादयो यस्य तं परं श्रेष्ठमेकैकं प्रत्येकमवनिपं नृपं हित्वा त्यक्त्वा अपरमन्यं नृपं यान्ती गच्छन्ती बुद्धचा नामसख्या पुनरप्यभाणि ऊचे ॥ ८४ ॥
त्वममुष्यासि सवर्णाऽलमन्यया हे सुकेशि वर्णनया ।
कर्णाटाः साधूनां यस्य गुणा वर्णनीयतया ॥ ८५ ॥ त्वममुष्येति । हे सुकेशि, मृदुलश्यामलकचवति, अन्यया वर्णनयाऽलं पर्याप्तं किमिहान्येन वर्णनेन यत्त्वमुष्य भूपस्य सवर्णासि तुल्यरूपासि । यद्वा तुल्या वर्णना यस्याः साऽसि । अथवा वः सान्त्वनार्थे वर्तते, तेन सान्त्वनेन सहितः सवस्तस्मिन्नणं कृपा यस्याः सा सवर्णाऽसिः अयमेतादृग् यस्य गुणाः प्रधानादयो वर्णेन जात्या नीयमानतया कर्णाटा इति
अर्थ : जिस प्रकार अधःप्रवृत्ति आदि करण-परिणाम बुद्धिको अतत्त्वश्रद्धानरूप मिथ्यात्वसे हटाकर सम्यक्त्व ( तत्त्वश्रद्धानता ) पर ले जाते हैं, उसी प्रकार विमानवाहक लोग सुलोचनाको उस राजासे हटाकर दूसरे राजाके पास ले गये ॥ ८३ ॥
अन्वय : एकैकम् अपूर्वगुणं परं हित्वा अपरम् अवनिपं यान्ती यस्या अद्भुता कान्तिः सा पुनः अपि बुद्धया अभाणि ।
अर्थ : इस प्रकार एक राजाको छोड़ दूसरे राजाके पास जानेवाली कांतिसे संपन्न उस सुलोचनाको विद्यादेवीने फिर कहना शुरू किया ।। ८४ ॥
अन्वय : सुकेशि ! अन्यया वर्णनया अलम्, त्वम् अमुष्य सवर्णा ( असि ), यस्य गुणाः वर्णनीयतया साधूनां कर्णाटाः ।
अर्थ : हे सुकेशि ! अधिक वर्णन करनेसे क्या लाभ ? क्योंकि तू इस राजाके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org