________________
१०
जयोदय- महाकाव्यम्
[ १६-१७
शौर्यप्रशस्तौ लभते कनिष्ठां श्रीचक्रपाणेः स गतः प्रतिष्ठाम् । यस्यासतां निग्रहणे च निष्ठा मता सतां संग्रहणे घनिष्ठा ॥ १६ ॥
1
शौर्येति । श्रीचक्रपाणेः भरतनामचक्रवर्तिनः सकाशात् प्रतिष्ठां गतः प्राप्तः सन् स नृपतिः शौर्यस्य वीरतायाः प्रशस्तिः श्लाघा तस्यां कनिष्ठामङ्गुलिं लभते । वीरपुरुषगणनासमये चक्रवर्तिनोऽग्रे प्रथमस्थानं गतवान् । यस्य निष्ठा श्रद्धा प्रवृत्तिर्वा, असतां निग्रहणे परिहारे मता सती, सतां संग्रहणे आदरणविषये सापि घनिष्ठा महती बभूव ।। १६ ।।
व्यर्थं च नार्थाय समर्थनं तु पूर्णो यतश्रार्थ्यभिलाषतन्तुः । स विश्वतोरोचनमृद्धदेशं कोषं दधौ श्रीधरसन्निवेशम् ॥ १७ ॥
व्यर्थमिति । स नरनाथः श्रीधरः कुबेरस्तस्य सन्निवेशं भाण्डागारमिव विश्वतोरोचनं सर्वेषां रुचिकारकम्, ऋद्धो देशो यस्य तं कथमप्यरिक्तमित्यर्थः । एतादृशं निधानं ast | यस्य निधानस्य समर्थनमर्थाय कस्मैचित्प्रयोजनाय व्यथं न भवति, यथेष्टवस्तुप्राप्तिस्ततः सुलभा बभूव । यतो यस्मादर्थिनां याचकानामभिलाषो मनोरथस्तस्य तन्तुः सद्भावः पूर्णः । तथा च श्रीधरो नाम ग्रन्थकर्ताऽऽचार्यस्तेन कृतः सन्निवेशो रचना यस्य तं श्रीधराचार्यनिमितमिति, विश्वतोरोचनं 'विश्वरोचनं' नाम कोषं यथेति । अन्यत्सर्वं पूर्ववत् ॥ १७॥
अन्वय : सः श्रीचक्रपाणेः प्रतिष्ठां गतः शौर्यप्रशस्तौ कनिष्ठां लभते । यस्य असतां निग्रहणे निष्ठा मता, न सतां संग्रहणे ( सा ) निष्ठा घनिष्ठा बभूव ।
अर्थं : भरत चक्रवर्तीसे भी प्रतिष्ठा प्राप्त वह राजा जयकुमार शूर-वीरता विषय में कनिष्ठिका ( कानी उँगली ) पर गिना जाता था, अर्थात् सर्वोत्तम था । उसकी सारी चेष्टाएं दुष्टोंके निग्रह करने में होती थीं। शिष्टोंको संग्रह करने में तो वह और भी तत्परतासे लगा रहता था ॥ १६ ॥
अन्वय : सः श्रीधरसन्निवेशम् ऋद्धदेशं विश्वतोरोचनं कोषं दधौ । यस्य अर्थाय समर्थनम् व्यर्थ न, यतः ( स ) अर्थ्यभिलाषतन्तुः पूर्णः ( आसीत् ) ।
अर्थ : वह राजा विशाल, भरा-पूरा और विश्वके लिए रुचिकर कुबेरके समान कोष ( खजाना ) धारण किये हुए था, जिसका समर्थन किसी भी प्रयोजनके लिए व्यर्थं नहीं होता अर्थात् उस कोषसे सभी मनचाही चीजें प्राप्त होती थीं । कारण वह याचकोंकी अभिलाषाओंके सद्भावसे पूर्ण था ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org