________________
प्रथमः सर्गः
सुरैरिति । असौ प्रसिद्धा चन्द्राख्यया ख्याता तस्य राज्ञो जयकुमारस्य यशसः प्रशस्तिः ख्यातिस्तया सम्यग् अङ्किता सोमशिला चन्द्रकान्तदृषदेव समस्ति किल । तस्य शिलालेखस्यार्थोऽभिप्रायस्तस्य विभावना सम्बुद्धिस्तस्यां यो जनोऽसमर्थोऽस्ति स इह लोके कमपि कलं चतुरं तदर्थज्ञमेतु प्राप्नोतु । अथवा कलङ्क लाञ्छनमेतु गच्छतु ॥ १४ ॥
भवाद्भवान् मेदमवाप चङ्गं भवः स गौरी निजमर्धमङ्गम् । चकार चादो जगदेव तेन गौरीकृतं किन्तु यशोमयेन ।। १५ ॥
भवादिति । चन्द्राख्यसोमशिलायां यशःप्रशस्तिरस्ति, तामेव स्पष्टयति- भवान् जयकुमारनृपतिः भवात् महादेवात् चङ्गमत्यन्तं भेदं विलक्षणत्वमवाप प्राप्तवान् । कमिति ? स भवो रुद्रो गौरी पार्वती निजमात्मनोऽर्धमङ्गमेव चकार, किन्तु यशोमयेन कीर्तिबहुलेन जयकुमारेण च अदो जगत्समस्तं गौरीकृतं शुक्लीकृतं, गौरीति वा कृतं पार्वतीस्वरूपतां निजस्त्रीसाधयं नीतमिति शब्दच्छलम् । अथवा भवात् जन्मनोऽनन्तरं भं प्रकाशस्तद्वान् सन् भे भवस्य भस्थाने दं दकारमवाप देवो बभूव । दकारः शुद्धिः, वकारः कुम्भः, दस्य शुद्धताया वः कुम्भोऽन्निधिदेवो बभूव संशुद्ध आसीदिति भावः । सोऽदो भव: पवित्रतारहितः संसारः गौरी स्त्रियं निजमर्धमङ्ग चकारेत्यादि । 'वः शुद्धो, वः कुम्भे वरुणे' इति विश्वलोचनः ।। १५ ॥
अन्वय : असो सोमशिला सुरैः तस्य यशःप्रशस्तिसमङ्किता समस्ति । इह यः तदर्थविभावनायाम् असमर्थः, सः तस्य अङ्कदलं कलङ्कम् एतु ।
अर्थ : यह चन्द्ररूप शिला देवताओं द्वारा उस राजाकी लिखी यशःप्रशस्तिसे अङ्कित है। किन्तु यहाँ जो उसका अर्थ नहीं जान पाता, वह किसी विद्वान् चतुर व्यक्तिके पास जाकर उसका रहस्य समझे । अथवा वह उस अङ्कदल ( अक्षरसमूह ) को कलङ्क ( काला अक्षर ) समझे ।। १४ ॥
अन्वय : भवान् भवात् चङ्ग भेदं अवाप । ( यतः ) स भवः निजम् अर्धम् अङ्गं गौरी चकार । किन्तु यशोमयेन तेन च अदः जगत् एव गौरीकृतम् ।
अर्थ : यह राजा महादेवसे भी बहुत बढ़ा-चढ़ा हुआ था, क्योंकि महादेव तो अपने आधे अङ्गको हो गोरी (पार्वती) बना सके। किन्तु इस राजाने तो अपने अखण्ड यश द्वारा संपूर्ण जगत्को ही गौरी कर दिया अर्थात् उज्ज्वल बना दिया ॥ १५ ॥
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org