SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ७७-७९ ] षष्ठः सर्ग स्त्रीभावचालित पदां याचामिव निर्धनाज्जनो धनिनम् । सुदृशं निनाय शिविकाधुर्यगणोऽतः परं गुणिनम् ॥ ७७ ॥ स्त्रीभावेति । जनो मङ्गतादिः निर्धनादकिञ्चनाद्धनिनं सम्पत्तिशालिनं याञ्चामिव प्रार्थनां यथा नयति तथैव शिविकाधुर्यगणस्तामतः काश्मीरनरेशात् पुनः परमितरं गुणिनं जनं सदृशं सुलोचनां निनाय नीतवान् । कीदृशीं ताम् ? स्त्रीस्वभावचालितपदां स्त्रीस्वभावेन यौवतविभवेन चालितं प्रकम्पितं पदं चरणं यया सा ताम् । पक्षे स्त्रीस्वभावेन स्त्रीलिङ्गरूपेण चालितं प्रस्तारितं पदं सुबन्तं यस्यास्ताम् ॥ ७७ ॥ ३०५ भूयो बभाण बालां बालाग्रमितोग्रदारकान्तिमवाक् । तनये मन एतस्मिन् कुरु कुरुदेशाधिपे वित वाकू ॥ ७८ ॥ भूय इति । वाग्नाम सखी बालाग्रेण केशप्रान्तभागेन अत्यल्परूपेण मिता सङ्कल्पिता उग्रदाराणां धूर्जटिस्त्रियाः पार्वत्याः कान्तिर्यया तां परमसुन्दरीं तां बालां भूयः पुनरपि चेत्येवं प्रकारेण बभाण जगाद, यत् हे तनये त्वमेतस्मिन् कुरुदेशस्याधिपे स्वामिनि मनश्चित्तमवाक् तूष्णीं यथा स्यात्तथा कुरु ॥ ७८ ॥ पुरुषोत्तमस्य वाहनमस्य समालोक्य युक्तमिति लसति । भुवि दर्पमर्पयित्वा सुदूरमहितच्चमपसरति ।। ७९ ।। अन्वय : जनः निर्धनात् धनिनं याच्ञाम् इव शिविकावाहकधुर्यगणः स्त्रीभावचालितपदां सुदृशम् अतः परं गुणिनं निनाय । अर्थ : पालकी ढोनेवाले लोग यौवन-वैभव से अपना पैर हिलानेवाली उस सुलोचनाको इस राजा के पाससे दूसरे किसी गुणवान् राजाके पास ठीक वैसे ले गये, जैसे याचकजन अपनी याचना निर्धन मनुष्य के पाससे हटाकर धनवान् के पास ले जाते हैं ॥ ७७ ॥ अन्वय : बालाग्रमितोग्रदारकान्ति बालां वाक् भूयः इतः बभाण तनये ! एतस्मिन् कुरुदेशाधिपे तु नृपतो मनः कुरु । अर्थ : पार्वतीकी कांतिको अपने बालाग्रके बराबर मापनेवाली उस सुलोचनासे वह विद्यादेवी पुनः कहने लगी कि हे पुत्रि ! यह कुरुदेश का राजा है, इसमें तो अपने मनको लगा ॥ ७८ ॥ अन्वय : अस्य पुरुषोत्तमस्य वाहनं समालोक्य भुवि दर्पम् अर्पयित्वा अहितत्त्वं सुदूरम् अपसरति इति युक्तं लसति । - ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy