________________
७४-७५ ]
षष्ठः सर्गः
३०३
जगतामिति । हे रतिप्रतिमे, मदनपत्नीसदृश मनोहरस्वरूपे, रतीशस्य कामदेवस्य मतिरिव मतिर्यस्य स कामसदृशः काश्मीरपतिरस्ति, यस्य तनौ शरीरे जगतामखिलप्राणिनामनुरागपूर्वकं धृतिर्धारणं प्रेमपूर्वकं प्रजायाः परिपालनम् । यद्वा जगतामेवानुरागधृतिः प्रीतिधारणामुष्मिन् राशि, या प्राणिमात्रस्य प्रीतिसत्ता सा पीतनस्य केशरस्याञ्चनावत् कुङ कुमरचितलेपपरिणतिवत् लसति शोभते । अहो आश्चर्ये ॥ ७३ ॥
असकौ कलादवादः सुभागसामर्थ्यतोऽयि भागवति । निजतेजसाऽजसाक्षी दुर्वर्ण वा सुवर्णयति ॥ ७४ ॥
असकाविति । असौ नृपतिः कलावस्य सुवर्णकारस्य वाद इव वादः प्रतिज्ञा यस्य स सुवर्णकार तुल्यचेष्टावानस्ति । यतो हे भागवति, पुण्याधिकारिणि सुलोचनेऽसको अज आत्मैव साक्षी यस्य स आत्मप्रमाणवान् सन् निजस्य तेजसा प्रभावेण वह्निना वा दुर्वर्णमपि शूद्रमपि सुवर्णयति द्विजतां नयति । किञ्च सुभागस्य सुकृतपरिणामस्य टङ्कणस्य वा सामर्थ्येन दुर्वणं हीनमप्युत्तमतां नयति । यथा स्वर्णकारो दुर्वर्ण रजतमपि सुवर्णतां हेमरूपतां नयति । दुर्वर्णे सुवर्णतापादनस्याशक्यत्वात् । अहो इत्याश्चर्ये ॥ ७४ ॥
कृताञ्जलितयैत्यङ्काज्जीवनदं जीवदो भियातङ्कात् । यद्घटितादयमर्हति स राजरुक् पूर्वरूपमिति ॥ ७५ ॥ कृताञ्जलीति । जीवं ददातीति जीवदोऽरिः मरणासनो वा येन घटितादुत्पादिताद्
अर्थ : हे रतिके समान सुन्दर सुलोचने ! यह राजा काश्मीरदेशका स्वामी है, कामदेव के समान मनोहर है, जिसके शरीर में लोगोंका अनुराग काश्मीरकुंकुमके अंगराग के समान सुशोभित हो रहा है ।। ७३ ।।
अन्वय : अयि भागवति ! असको कलादवाद: अजसाक्षी सुभागसामर्थ्यतः निजतेजसा दुर्वर्णं वा सुवर्णयति ।
अर्थ : हे सौभाग्यशालिनी ! यह राजा सुनारके समान चेष्टावाला है, जो अपने सौभाग्यरूपी सुहागेकी सामर्थ्य से अपने तेजरूपी अग्निद्वारा भगवान्की साक्षी से दुर्वर्णरूपी चांदोको भी सुवर्ण बना देता है । अर्थात् दुराचारीको भी सदाचारी बना देता है ॥ ७४ ॥
अन्वय : सः अयं राजरुक् पूर्वरूपत्वम् अर्हति, जीवदः यद्घटितात् आतङ्कात् भिया अङ्कात् कृताञ्जलितथा जीवनदम् एति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org