________________
२९८ जयोदय-महाकाव्यम्
[६३-६४ इतीति । इत्युक्तरीत्या विश्रुतानामाकणितानां सिन्धुदेशाधिपतेर्गुणगणानां गणनाय संख्यानायव विचारसारस्तत्वावधानरूपो व्यापारस्तस्मिन्मग्नं तल्लीनं मनो यस्याः सा सुलोचना होत्येवं चालयतिका मिषक: सती चालस्य छपनो यतिका विश्रमो यत्रेस्येवमाद विभ्रमाद् विमनस्कत्वाच्छिरः स्वमस्तकं तिरस्तियंक चालयति स्म ॥ २ ॥
बहुगुणरत्नात्तस्माद्देवा इव यानवाहका नवलाम् । पुरुषोत्तमयोग्यामपनिन्युः कमलामिवापमलाम् ॥ ६३ ।। बहुगुणेति । बहवो ये गुणा एव रत्नानि यस्य तस्माद् राज्ञ एव, बहुगुणान्यनल्परूपाणि रत्नानि मुक्तादीनि यस्मिन्, ततः समुद्राद गाम्भीर्यादिगुणसद्भावाद्, राशि समुद्रत्वमुत्प्रेक्ष्यते । यानवाहका जना देवा इव सुमनस्त्वादपमलां दोषजितां कमलामिव तां बालां पुरुषोत्तमस्य श्रेष्ठपुरुषस्य, पक्षे विष्णोर्योग्यां नियोगिनीमपगतमलामपनिन्युः अन्यत्र अपनीतवन्तः ॥ ६३ ॥
विस्मेरया न च मनाङ् नृपेषु सजपेषु रागिणी भुवि या। पुनरप्यभाणि तनयाऽनया नयान्निर्णयाय धिया ॥ ६४ ॥
विस्मेरयेति । या तनया बाला भुवि तस्यां सभायां सजपेषु मामेव किं नोपलब्धवतीयमित्येवमात्तावधानेषु पूर्ववणितेषु नृपेषु मनावीषदपि रागिणी न भवति । तथा जपासहितेषु सजपेषु रक्तकुसुमविशेषेष्वपि रागिणी रक्तवर्णा नाभूदिति किलाश्चर्येण विस्मेरया स्मयमानयाऽनया धिया सख्या नयान्नीतिमार्गावलम्बनाद् यावत् कस्यचित् स्वीकारः
अर्थ : इस प्रकार उस राजाके गुणोंको गिननेके लिए ही मानो विचारमग्न उस बालाने अपना सिर कुछ तिरछा चला दिया, अर्थात् चलनेका इशारा किया ॥ ६२॥
अन्वय : देवाः इव यानवाहकाः बहुगुणरत्नात् तस्मात् पुरुषोत्तमयोग्यां कमलाम् इव अपमलां तां नवलांब
अर्थ : वह राजा बहुत गुणरूपी रत्नोंका खजाना था। ( फिर भी इशारा पाकर ) देवोंके समान वे यानवाहक लोग पुरुषोत्तमके योग्य और निर्दोष लक्ष्मीकी तरह उस नवैली सुलोचनाको उससे हटा ले गये।। ६३ ॥
अन्वय : भुवि या सजपेषु नुपेषु च मनाक् रागिणी न, (सा ) तनया अनया विस्मेरया धिया नयात् निर्णयाय पुनः अपि अभाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org