________________
२९५
५६-५८ ] षष्ठः सर्गः
__ २९५ चकृपुर्जगत्प्रदीपात्ततश्च तामुदयिनी सुवंशांसाः ।
भानोरिव सोमकलां कुमुद्वतीकन्दसुकृतांशाः ॥ ५६ ॥ चकृषुरिति । सुवंशः शिविकावण्डोंऽसेषु स्कन्धेषु येषां ते यानवाहकास्ते जगतो विश्वस्य प्रदीपादुद्योतकारकात् नीतिमार्गसञ्चालनेनोत्कर्षप्रदायकात्ततश्च नृपात् तां प्रसिद्धामुदयिनीमभ्युदयशालिनी बाला चकृषुराकृष्टवन्तः । यथा कुमुद्वत्याः कैरविण्याः सुकृतांशाः पुण्यलेशाः सोमस्य चन्द्रस्य कला भानोः सूर्यावाकर्षन्ति। उपमालङ्कारः ॥५६॥
तदिशि संसक्तकरा नरान्तरमिहाशशंस मृदुवचसा ।
अपघनघटनातिशयैर्वागपि जितरतिपतिं किल सा ॥ ५७ ॥ तद्दिशीति । इह प्रसङ्गे सा वाक्देवी, तस्य वक्ष्यमाणस्य नृपस्य दिशि संसक्तकरा प्रयुक्तहस्ता सती, मृदुवचसा मधुरवचनेन, अपघनानामवयवानां घटना संघटनं तस्या अतिशया विशिष्टभावास्तजितः पराभूतो रतिपतिः कामो येन तम्, अन्यो नर इति नरान्तरमितरनृपम् आशशंसाऽकथयत् ॥ ५७ ॥
सिन्धुपति गुणितीरं मुक्तामयवपुषमतिशयगम्भीरम् ।
सिन्धुवद् व्रज सुवीरं बन्धुनिबन्धाधरे धीरम् ॥ ५८ ॥ गुणोंका चिन्तन करनेके लिए अपनी आँखें मीच रही है। वास्तव में वह तो जयकुमारके हो गुणोंकी कमल-माला फेर रही थी ॥ ५५॥ ___अन्वय : कुमुद्वतीकन्दसुकृतांशाः भानोः सोमकलाम् इव सुवंशांसाः ताम् उदयिनीम्, ततः च जगत्-प्रदीपात् चषुः ।
अर्थ : उदयको प्राप्त होनेवाली उस सुलोचनाको वे शिविकावाहक लोग जगत्के प्रदीपरूप उस राजाके पाससे खींच ले गये, जैसे कुमुद्वतीके पुण्यांश चन्द्रमाकी कलाको सूर्यसे खींच लेते हैं । ५६ ॥
अन्वय : इह सा वाग् अपि मृदुवचसा अपघनघटनातिशयः जितरतिपति नरान्तरं तद्दिशि संसक्तकरा आशशंस । __अर्थ : इस अवसरपर वह वाक्देवो भी मधुर वचनों और अपने अवयवोंकी सुन्दरतासे कामदेवको भी जीतनेवाले किसी दूसरे राजाकी ओर अपना हाथ संकेतित कर उसकी प्रशंसा करने लगी ।। ५७ ॥ ___ अन्वय : बन्धुनिबन्धाघरे ( एतं ) सिन्धुपति गुणितीरं मुक्तामयवपुषम् अतिशयगम्भीरं सुवीरं सिन्धुवत् व्रज ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org