________________
५२-५४]
षष्ठः सर्गः
पततो नृपतीन पदयोरुदतोलयदेष पाणियुग्मेन । तन्मौलिशोणमणिगणगुणितास्य कराङ्घ्रिरुक्तेन ।। ५२ ।।
२९३
पतत इति । एष महाशयः पवयोश्चरणयोर्मूले पततो नमस्कुर्वतो नृपतीन्, अन्यराजान् पाणियुग्मेन स्वहस्तद्वयेन कृत्वोवतोलयत्, उदस्थापयदित्यर्थः । तेनैव कारणेन तेषां मौलिषु मुकुटेषु सङ्गता ये शोणमणिगणा माणिक्याविरत्नसमूहास्तैर्गुणिता सम्पाविताऽसौ अस्य करयोरङ ध्योश्च रुक् शोणिमा भाति । करचरणेषु स्वाभाविकीमरुणतां नमज्जनमुकुटस्थ मणिसंसर्गसम्पादितवेन उत्प्रेक्षते ॥ ५२ ॥
यद्गजवमथुकृतोऽरींस्तुषारवारः
प्रकम्पयत्याशु | ग्लायन्ति तद्वधूनां मुखारविन्दानि यात्रासु ॥ ५३ ॥
यद्गजेति । यात्रासु दिग्विजयप्रयाणे यस्य राज्ञो गजानां वमथुभिः स्थूत्कृतशीकरैः सम्पादितो यस्तुषारवारः प्रालेयकालः सोऽरीन् वैरिणो जनान् आशु शीघ्रमेव प्रकम्पयति कम्पं नयति । तथा च तद्वधूनां शत्रुस्त्रीणां मुखान्येवारविन्दानि कमलानि म्लायन्ति मलिनीभवन्ति ॥ ५३ ॥
विनयभृदुन्नतवंशः सुलक्षणोऽसौ विलक्षणोक्ततनुः । विलसति च नलसदास्यो लावण्याक्कोऽपि मधुरतनुः ॥ ५४ ॥
अन्वय : एषः पदयोः पततः नृपतीन् पाणियुग्मेन एव उदतोलयत् । तेन अस्य कराङ्घ्रिरुक् तन्मौलिशोणमणिगणगुणिता ।
अर्थ : अपने पैरों में पड़नेवाले राजाओंको यह अपने दोनों हाथोंसे उबार लिया करता है । इसीलिए उन राजाओंके मुकुटोंमें लगी मणियों की प्रभासे इसके पैर-हाथ लाल-लाल हो रहे हैं ।। ५२ ।
च )
अन्वय : यात्रासु यद्गजनमथुकृतः तुषारवारः अरीन् आशु प्रकम्पयति । ( तद्वधूनां मुखारविन्दानि ग्लायन्ति ।
अर्थ : दिग्विजय यात्राओंमें इसके हाथोकी सूँडको फूत्कारसे जो जलके हिमकण निकलते हैं, वे शिशिरकाल होनेसे वैरी लोगोंको शीघ्र कँपा देते हैं और उन वैरियोंकी स्त्रियोंके मुखकमल मुरझा जाते हैं ॥ ५३ ॥
अन्वय : असो विनयभृत् उन्नतवंशः सुलक्षणः विलक्षणोक्ततनुः नलसदास्यः च विलसति । लावण्याङ्कः अपि मधुरतनुः ( अस्ति ) |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org