________________
जयोदय- महाकाव्यम्
[५०-५१
व्यसनेति । शिविकावाहकलोकस्तां चकोरवृशं चकोरनेत्रां सुलोचनां ततः काविलराजात् आकर्षति स्म कृष्टवान् । साधुजनः सज्जनो व्यसनाद् विपत्स्थानाद् मतिमिव चेतोवृत्तिमिव । कीदृशीं मतिम् अतिविशदां निर्मलां परस्य सदृङ न भवतीत्यपरसदृक् तामपरसदृशं लोकोत्तरां बुद्धिमिव ।। ४९ ।।
२९२
अभिमुखयन्ती सुदृशं ततान सा भारतीं रतीन्द्रवरे । वसुधासुधानिधाने मधुरां पदबन्धुरां तु नरे ।। ५० ।।
अभिमुखेति । सुवृशं सुलोचनामभिमुखयन्ती सम्मुखां कुर्वन्ती सा वाग्देवी वसुधायाः पृथिव्याः सुधानिधाने चन्द्रमसीवाऽऽह्ल विकारके रतीन्द्रः कामस्तस्मादपि वरे श्रेष्ठे नरे मनुष्ये पर्वः शब्वैर्बन्धुरां मनोहराम्, अत एव मधुरां मृदुलतरां वाणीं ततान विस्तारयाकार ॥ ५० ॥
अङ्गाधिपतिः सोऽयं लावण्यासारसारपूर्णाङ्गः । यस्यावलोकने खलु मदनश्चानङ्ग एवाङ्ग ।। ५१ ।
अङ्गाधिपतीति । अङ्गेत्यामन्त्रणे । हे सुलोचने, सोऽयं पुरोगतो नृपतिरङ्गवेशाधिपतिरस्ति । कथम्भूतः ? लावण्यस्य सौन्दर्यस्य आसारः प्रसारस्तस्य सारस्तस्वं तेन परिपूर्णमङ्गं यस्य सः, परमसुन्दर इत्यर्थः । यस्यावलोकने कृते सति मवनः कामः स पुनरनङ्ग एव, शरीररहितः स्वल्पसुन्दरो वा प्रतिभातीति शेषः ॥ ५१ ॥
अर्थ : जैसे साधुजन अपनी निर्मल बुद्धिको व्यसन से हटा लेते हैं, वैसे ही पालकीको ढोनेवाले लोगोंने सुलोचनाको वहाँसे हटा लिया ।। ४९ ॥
अन्वय : सुदृशम् अभिमुखयन्ती सा वसुधासुधानिधाने रतोन्द्रवरे नरे तु पदबन्धुरां मधुरां भारतीं ततान ।
अर्थ : फिर वह बुद्धिदेवी सुलोचनाको संबोधित कर पृथिवी के सुधाकर किसी सुन्दर राजाके विषय में अपनी सुन्दर पदोंवाली वाणी कहने लगी ।। ५० ॥
अन्वय : अङ्ग ! सः अयं लावण्यासारसारपूर्णाङ्गः अङ्गाधिपतिः यस्य अवलोकने खलु मदनः च अनङ्गः एव भवति ।
अर्थ : हे पुत्र ! यह अंगदेशका राजा है, सुन्दरताके सारसे पूर्ण है । इसे देखनेपर निश्चय ही कामदेव इसके सामने तुच्छ प्रतीत होने लगता है ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org