SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २९१ ४७-४९] षष्ठः सर्गः कस्येति यमस्याविलान्तीत्येतेषु वरमिमं सारात् । अवबुद्ध्य मुमोचासाविह तरलदृगश्चला बाला ॥ ४७ ॥ कस्येति । कस्य यमस्य अवि वाहनरूपं मेषं लान्तीति काविला यमपार्श्ववतिनो भयंकराः, तेषां राजानमिममवबुद्ध्य ज्ञात्वैव इहास्मिन्नवसरेऽसौ तरलदृगञ्चला चञ्चलापाङ्गवतो बाला सुलोचना आरादेव शीघ्रं यथा स्यात्तथा मुमोच सा नाङ्गीचकार ॥४७॥ अस्यावलोक्य वदनं स्वपदाङ्गुष्ठाग्रदृक् सुजनचक्रे । त्रपयेव सम्भवन्ती द्रागाशयमाविराञ्चक्रे ॥ ४८ ॥ अस्येति । अस्य काविलरास्य वदनं मुखमवलोक्य अस्मिन् स्वयंवरलक्षणे सुजनचक्रे जनसमुवाये अपयेव लज्जयेव किल स्वपवस्यात्मचरणस्य अड गुष्ठाने वृक् चक्षुर्यस्याः सा सम्भवन्ती सती द्राक् शीघ्रमेवाशयं निजमनोभावमाविराञ्चके प्रकटयाञ्चकार, नायं महाशयो मम पदाङ्गुष्ठतुलनामप्येतीति सूचयामास इत्यर्थः ॥४८॥ व्यसनादिव साधुजनो मतिमतिविशदां ततश्चकोरदृशम् । अपकर्षति स्म शिविकावाहकलोकोऽप्यपरसदृशम् ॥ ४९ ॥ अन्वय : तरलदृगञ्चला बाला सा इदानी कस्य यमस्य अविलान्ति इति एतेषु वरम् इमम् अवबुद्ध्य इह आरात् तत्याज । अर्थ : अत्यन्त चञ्चल अपाङ्गोंवाली उस सुलोचना बालाने काविलराजका अर्थ यह समझकर कि यह तो यमराजके लिए अवि ( मेंढा ) लानेवालोंमें वीरवर है ( अर्थात् भयानक मृत्युदेवताका साथी है ), शीघ्र ही उसे त्याग दिया ।। ४७॥ अन्वय : सुजनचक्रे अस्य वदनम् अवलोक्य त्रपया इव स्वपदाङ्गुष्ठाग्रदृक् संभवन्ती द्राक् ( सा ) आशयम् आविराचक्रे । अर्थ : सुजन-समूहके बीच इस काविलराजका मुंह देख उस बालाने लज्जाके मारे मानो अपने पैरके अंगूठेको देखा और जनताके बीच यह आशय प्रकट कर दिया कि मैं तो इसे पैरोंके अंगूठेसे भी तुच्छ समझती हूँ॥ ४८॥ ___ अन्वयः साधुजनः अतिविशदा मतिं व्यसनात् अपरसदृशं मतिम् इव शिविकावाहकलोकः तां चकोरदृशं ततः अपकर्षति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy