________________
४३-४४ ] षष्ठः सर्गः
२८९ अयोति । अयि बाले, अयं काविलराजो वर्तते, त्वमस्य शस्यधुतिमत् मनोहरकान्तियुक्तं वपुः शरीरं पश्य, यदेनं महानुभावं कविकुलानि केन सुखेन आविलानामनुलिप्ताना राजेति कृत्वा यथाभिधं सार्थनामानं सुखिनां चूडामणि पपुरपिबन् ॥ ४२ ॥
द्विडकीर्तिः कालिन्दी सुरसरिदस्याथ कीर्तिरुदयन्ती ।
सुभटास्तयोः प्रयागे सुखाशया सन्निमञ्जन्ति ॥ ४३ ॥ द्विडकीतिरिति । द्विषां वैरिणामकीतिरपयशःपरिणतिः कालिन्दी यमुनानदी भवति, अस्य च राज्ञ उदयन्ती समुदयं गच्छन्ती कोतिरथ सुरसरित् स्वर्गनेव भाति । तयोयोः प्रयागे सङ्गमतीर्थे सुखाशयाऽनन्दवाञ्छया स्वर्गप्रास्यभिलाषया वा निमज्जन्ति स्नान्ति ॥ ४ ॥
कामशरैरनुविद्धान् सुगहरां पार्वतीं श्रितांश्च गणान् ।
हिमनिर्मलगुण एकस्ततान तानप्रसिद्धगुणान् ।। ४४ ।। कामशरैरिति । अयं हिमेन सदृशा निर्मलाः पवित्रा गुणा यस्य स हिमनिमलगुण एक एव राजा वर्तते, यः खलु गणान् शत्रुपक्षीयसैनिकान् कामशरैर्यथेच्छमन्मुक्तः शरैः कृत्वा, पक्षे कामस्य मदनस्य शरेरनुविद्धान्; ततश्च पार्वती पर्वतभवां सुकन्दरां मितान् प्रविष्टान्, पक्षे सुगहरां शोभनदम्भवती कामचेष्टासम्पत्यर्थमुन्मादिनोन्मनश्छलां पार्वतीमुमां श्रितान् तया सह सङ्गतान्, एवं कृत्वा तानकार इव महादेव इव प्रख्याता गुणा
____ अर्थ : हे सुलोचने ! यह काविलराज है। मनोहर कान्तियुक्त इसके शरीरको देखो। सुखसे घनीभूत ( 'क' = सुखसे आविल = घनीभूत) पुरुषोंका राजा होनेसे कवि लोग इसे 'काविलराज' कहते हैं । ४२ ।।
अन्वय : द्विडकीतिः कालिन्दी, अथ च अस्य उदयन्ती कीर्तिः सुरसरित्, तयोः प्रयागे सुभटाः सुखाशया, सन्निमज्जन्ति ।। - अर्थ : इस काविलराजके वैरियोंकी अपकीर्ति ही यमुना है और इसकी उदीयमान कीर्ति है निर्मल गंगा। इन दोनोंके संगमरूप प्रयागमें आनन्द या स्वर्ग की आशा रखनेवाले सुभट लोग डुबकी लगाते हैं ॥ ४३ ॥
अन्वय : ( अयं ) हिमनिर्मलगुणः एकः तान् कामशरैः अनुविद्वान् पार्वती सुगह्वरां श्रितान् गणान् अप्रसिद्धगुणान् ततान ।
अर्थ : यह राजा हिम-निर्मल गुणवाला है। अतः इस अकेलेने ही कामके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org