________________
२८८ जयोदय-महाकाव्यम्
[४०-४२ अंसोपरिस्थशिविकावंशैमितमिङ्गितञ्च वारायाः ।
पुरतःस्थभूपभूषामणिषु प्रतिमावतारायाः ॥ ४० ॥ अंसोपरीति । अंसस्य स्कन्धस्योपरि तिष्ठतीति तथाभूतः शिविकाया वंशो मानदण्डो येषां ते तैर्वाहकजनैरपि पुरतःस्थस्य संमुखे स्थितस्य भूपस्य भूषामणिषु, अलङ्काररत्नेषु प्रतिमाया अवतारः प्रतिबिम्बभावेनावतरणं यस्याः सा तस्या वारायाः, रलयोरभेदावालाया इङ्गितं चेष्टितं मितमनायासेनानुमितमित्यर्थः ॥ ४०॥
पुनरनु काविलराजं जनीकया तर्जनीकया कृत्वा ।
देव्या तदाऽवदाता जगदे जगदेकरूपवती ॥ ४१ ॥ पुनरिति । पुनरनन्तरं जनीकया देव्या बुद्धया काविलराजं काविलदेशनपमुद्दिश्य तर्जनीकयाऽङगुल्या, अवदाता गौरवर्णा जगत्येकमद्भुतं रूपं यस्याः सा कुमारी जगदेऽकथ्यत ॥ ४१॥
अयि काविलराजोऽयं शस्यधुतिमत्त्वमस्य पश्य वपुः। सुखिचूडामणिमेनं यथाभिधं कविकुलानि पपुः ॥ ४२ ॥
-
प्रकट करनेवाली सुन्दरी सुलोचनाको वहाँसे दूसरे राजाके पास ले जानेवाले यानवाहकोंने ठोक ही किया ॥ ३९ ॥
अन्वय : अंसोपरिस्थशिविकावंशः पुरतःस्थभूपभूषामणिषु प्रतिमावतारायाः वाराया इङ्गितं च मितम् । _अर्थ : सामने बैठे राजाओंके आभूषणोंमें जो मणियाँ लगी थीं, उनमें सुलोचनाका प्रतिबिम्ब पड़ता था। उसे देखकर कंधेपर शिबिकाका बाँस धारण करनेवाले शिविकावाहक पुरुष उसकी चेष्टाएँ अनायास जान गये ।। ४० ॥ - अन्वय : तदा पुनः जगदेकरूपवती अवदाता अनु काविलराज तर्जनीकया कृत्वा जनीकया देव्या जगदे।
अर्थ : फिर उस बुद्धिदेवीने काविलराजको ओर अपनी तर्जनी अंगुलि करके अनन्यरूपवती गौरवर्णा सुलोचनासे कहा ।। ४१ ।।।
अन्वय : अयि ! अयं काविलराजः, त्वम् अस्य शस्यद्युतिमत् वपुः पश्य । कविकुलानि मुखिचूडामणिम् एनं यथाभिधं पपुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org