SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८५ ३३-३४ ] षष्ठः सर्गः अनामिका साङ्गुष्ठानामिका तस्या उपयोगमयं संयोगधारकं वलयं स्वकङ्कणं कौतुकितयेव विनोदभावेनेव चालितवती। कङ्कणचालनेन स्थानान्तरगमनाय उक्तवतीत्यर्थः । कङ्कणचालनं स्त्रीजातिस्वभावः ॥ ३२॥ नयति स्म स जन्यजनो भगीरथो जङ्खकन्यकां सुयशाः । सुकुलाद् भूभृत इतरं कुलीनमपि भूभृतं सुरसाम् ॥ ३३ ॥ नयति स्मेति । स सुयशाः प्रशंसनीयो जन्यानां जनः समूहो जन्यजनः संवाहकलोकस्तां सुरसां शुभशृङ्गारां कन्यकां सुलोचना सुकुलाद् भूभृतः कुलीनभूपालावितरं कुलीनभूभृतं सद्वंशजनृपं नयति स्म। यथा यशस्वी भगीरथः सुरसां निर्मलजलपरिपूर्णा जह्न कन्यकां गङ्गां हिमालयनामकुलपर्वतात् कैलासाख्यं कुलपर्वतं नीतवान् ॥ ३३ ॥ उक्तवती सुगुणवती दरवलिताङ्गं तदाभिमुख्येन । अन्यमनन्यमनोज्ञं पश्यावनिपं सुमुख्येनम् ॥ ३४ ॥ उक्तवतीति । सुगुणवती परोपकारिणी वाणी नाम सखी तस्य वर्ण्यमानजनस्याभिमुख्येन संमुखत्वेन वरमोषद्वलितं वक्रतामितमङ्गं यत्र यथा स्यात्तथा उक्तवती जगाद यद् हे सुमुखि शुभानने अनन्यमनोज्ञमद्वितीयसुन्दरमेनं नयनयोरग्ने स्थितं पश्य निभालय, अन्यमितरमनालोकितपूर्वमित्यर्थः ॥ ३४ ॥ कौतुकवश अनामिका अंगुली और अंगूठेद्वारा अपने वलयको घुमा दिया, जिससे मानो यह संकेत किया कि यहांसे आगे चलो ॥ ३२॥ ___ अन्वय : सुयशाः भगीरथः जह्न कन्यकाम् इव सुकुलाद् अपि भूभृतः इतरं कुलीनं भूभृतं सुरसा सः जन्यजनः नयति स्म । अर्थ : जिस तरह राजा भगीरथ गंगाको कुलपर्वत हिमालय से कैलास कुलपर्वतपर ले गये, उसी तरह ये शिविकावाहक भी शुभशृंगारा उस सुलोचनाको उस कुलीन राजाके पाससे दूसरे कुलीन राजाके पास ले गये ॥ ३३ ॥ ____ अन्वय : सुमुखि ! एनम् अनन्यमनोज्ञम् अवनिपं पश्य ( इति ) अन्यं तदाभिमुख्येन दरवलिताङ्गं सा सुगुणवतो उक्तवती। ___ अर्थ : हे सुमुखि ! तू सबसे अधिक सुन्दर इस राजाको देख, इस प्रकार वह वाणीनामक सुन्दर सखी किसी दूसरे राजाकी ओर थोड़ा मुड़कर बोली ॥ ३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy