________________
२५-२६ ] षष्ठः सर्गः
२८१ भूरिधा नानारूपेण कथायाः प्रशंसाया आधारः स्थानमस्ति । शैलोचिताः पर्वतवदुन्नता ये करिणो हस्तिनस्तेषां चयवान् संग्रहवान् भवति किल । इह पुनर्यो रिपुसारो वैरिशिरोमणिः स कम्पमुपैति वेपते, ककारस्थाने पकारमुपैति । तथैव च पोषापेक्षी स्वोदरपोषणमप्यपेक्षते, परजितवसुधो भवति परेण पराक्रमिणा जिता वसुधा यस्येति भूरिधा पथाधारो भवति, भयभीतः सन् नानामार्गपरायणः शैलोचितपरिचयवान् पर्वतप्रदेशनिवासवान् भवतीत्यर्थः ॥ २४ ॥
बाला कलिङ्गतानां राजानमुदीक्ष्य संविभजनीयम् । पातयति स्म न दृशमपि पातयतिं तर्कयन्तीयम् ॥ २५ ॥ बालेति । कलि कलहं पापं वा गच्छन्ति स्वीकुर्वन्ति ते कलिङ्गास्तेषां कलिङ्गानां कलिङ्गतानां राजानं शिरोमणिमित्येवं कृत्वा संविभजनीयं परिहारयोग्यमुदीक्ष्य विचार्य पातस्य असत्सङ्गमरूपस्य यतिमनादरमेव श्रेय इति इति तर्कयन्ती मनसि स्मरन्तीयं सुलोचना तस्य राज्ञो दिशि दृशमपि न पातयति स्म, दृष्टिदानमपि न चकार । 'यतियंतिनि पुसि स्त्री पाठभेदनिकारयोरिति ॥ २५॥
सुरभिम यान्यजना निन्युः स्थानान्तरं तरां जवतः ।
लक्ष्मीवतः सुमनसां प्रमुखादपि मारुता हि ततः ॥ २६ ॥ समान हाथियोंके समूहवाला है। अतः इसके सामने शत्रुशिरोमणि भी कांपने लगते हैं।
. दूसरा अर्थ : कलिंगराजके इन्हीं विशेषणोंमें जहाँ 'क' है, वहाँ उसके शत्रु 'प' को प्राप्त करते हैं । अर्थात् 'पोषापेक्षो' ( उदरपोषणकी अपेक्षावाले ), 'परजितवसुधा' (जिनकी भूमि शत्रुओंने जीत ली ) और 'भूरिधा पथाधार' ( भयभीत हो इधर-उधर भटकनेवाले) शैलोचित परिचयवाले यानी पर्वतवासी हैं ॥ २४ ॥ . अन्वय : कलिङ्गतानां राजानं संविभजनीयम् उदीक्ष्य पातयति तर्कयन्ती इयं बाला दृशम् अपि न पातयति स्म । ___अर्थ : सुलोचनाने यह सोचकर कि कलिंगराजका अर्थ कलह करनेवाले लोगोंका मुखिया राजा है, इसलिए यह सर्वथा परिहरणीय है, उसकी ओर नजर भी नहीं डाली ।। २५ ॥
। अन्वय : मारुता हि यान्यजनाः ततः सुमनसां प्रमुखात् लक्ष्मीवतः अमुं सुरभि ततः जवतः स्थानान्तरं निन्यस्तराम् अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org