SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २१-२२ ] षष्ठः सर्गः २७९ गिरमिति । अस्मिन्नभिनये समारोहे सभासङ्घटने सा सखी हे सुकुशेशयेन विकसितकमलेनेष्टः पूजितः शयो हस्तो यस्याः सा तत्सम्बोधने हे प्रफुल्लपङ्कजाधिकमनोहरकरे शृणु निशम्यतां तावदिति सुलोचनामभिमुखीकृत्य, अपरस्मिन् कस्मिश्चिदिष्टे वाञ्छिते तत एव शयेन हस्तेन निर्दिष्टे सङ्केतिते महाशये समुदारहृदये राजपुत्रे गिरं वाणीं सारयति स्म प्रसारितवती ॥ २० ॥ अयमिह कलिङ्गराजः कलिङ्ग इव ते पयोधरासारम् । पश्यति शस्यतिलाङ्के नश्यतु तृष्णाप्यमुष्यारम् ।। २१ ।। अयमिति । शस्यः सामुद्रिकशास्त्रानुकूलप्रशंसार्हस्य तिलस्याङ्क चिह्नो यस्याः सा तत्सम्बोधने, हे सुलक्षणे, इहास्मिन्नवसरेऽयं कलिङ्गदेशस्य राजा ते तव सरसायाः पयोधरयोरासारं विस्तारम् । यद्वा, पयोधराणां मेघानामासारं प्रवर्षणं पश्यति, साभिलाषमीक्षते । 'आसारस्तु प्रसरणे धारावृष्टौ सुहृद्बले' इति विश्वलोचनः । कलिङ्ग इव चातकपक्षीव, यथा चातको मेघानां वर्षाणमपेक्षते तथैव पुनरमुष्य तृष्णा पिपासावन्नश्यतु विनाश यातु । अतस्त्वमस्य कण्ठे वरमालां परिधापयेति भावः ॥ २१ ॥ सुन्दरि कलिङ्गजानां कलिङ्गजानां शिरः श्रिया श्रयतात् । पीवरपयोधरद्वयरयेण येन स्थितोदयता ।। २२ ॥ अर्थ : तब फिर उस बुद्धिदेवीने उस अभिनय में सुन्दर कमलके समान हाथोंवाली सुलोचनाको संबुद्धकर अपने हाथोंद्वारा निर्दिष्ट किसी दूसरे अभीष्ट महाशय के बारे में अपनी वाणीका प्रसारण प्रारम्भ किया । अर्थात् वह कहने लगी ।। २० ।। अन्वय : शस्यतिलाङ्के ! इह अयं कलिङ्गराजः कलिङ्गः इव ते पयोधरासारं पश्यति । अरं अमुष्य अपि तृष्णा नश्यतु । अर्थ : सामुद्रिकशास्त्रोक्त प्रशंसनीय तिलचिह्नवाली सुलक्षणे ! यह कलिंगराज है, जो चातकके समान तेरे पयोधरोंके आसार ( विस्तार या धारासंपात ) की ओर देख रहा है । इसकी भी प्यास चातककी-सी उनसे बुझे ॥ २१ ॥ अन्वय : सुन्दरि ! त्वं येन उदयता पीवरपयोधरद्वयरयेण स्थिता असि ( तेन ) कलिङ्गजानां गजानां शिरः श्रिया सह कलि श्रयतात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy