________________
२७८ जयोदय-महाकाव्यम्
। [१८-२० इत्येवमर्ककीर्तेः पल्लवमतिहल्लवं स्म जानाति । स्मरचापसन्निभभ्रूः कटुकं परमर्केदलजातिः ॥ १८॥ इत्येवमिति । इत्येवं सख्या प्रोक्तमर्ककीर्तेः पल्लवं प्रशंसनं सा स्मरचापेन कामदेवधनुषा सन्निभे तुल्ये भ्रवौ यस्याः सा सुलोचनाऽकंदलस्य जातिरिव जातिर्यस्य तत् परं केवलं कटुकम्, अत एव हुल्लवं मनोरथमतिवर्तते तदतिहल्लवं जानाति स्म ॥ १८ ॥
भ्रभङ्गमङ्गजाया. लिङ्गं तदनादरेऽम्बिका साऽयात् । अस्मिन् पर्वणि तमसा रभसादसितोऽभितोऽयशाः ॥ १९ ॥ भ्रभङ्गमिति । साऽम्बिका बुद्धिरङ्गजायाः सुलोचनाया भ्रुवोर्भङ्ग विकृतिमेव तस्मिन्नर्कको योऽनादरः प्रीत्यभावस्तस्मिल्लिङ्ग कारणमयादजानात् । अर्कयशा अर्ककोतिश्च अस्मिन् पर्वणि महोत्सवे ग्रहणावसरे च रभसाच्छीघ्रमेव अभितः समस्तभावतो न सितोऽसितो मलिनोऽवमानतमसाच्छन्नः, अभवदिति शेषः ॥ १९ ॥
गिरमपरस्मिन्निष्टे महाशये सा- शयेन निर्दिष्टे । सारयति स्माऽभिनये शृण्विति सकुशेशयेष्टशये ॥ २० ।।
अन्वय : स्मरचापसन्निभभ्रः इति एवम् अर्ककीतः पल्लवम् अतिहल्लवं परम् अर्कदलजातिः कटुकं जानाति स्म ।
अर्थ : कामदेवके धनुषके समान सुन्दर भ्रुकुटिवाली सुलोचनाने इस प्रकार अर्ककीतिके विषयमें कहे पदोंको हृदयके लिए असुहावना समझा, जैसे कि कडुवा आकका पत्ता ॥ १८ ॥
अन्वय : मा अम्बिका अङ्गजायाः भ्रूभङ्गं तदनादरे लिङ्गम् अयात् । तस्मिन् पर्वणि अर्कयशाः रभसा अभितः तमसा असितः अभवत् ।
अर्थ : उस बुद्धिदेवीने सुलोचनाके भ्रूभंगको देख अर्ककीतिके विषयमें उसका अनादर समझ लिया । ( फलतः) उसी महोत्सव में शीघ्र ही अर्ककीतिका मुंह तमसे चारों ओरसे अपमानके आच्छन्न हो गया ।। १९ ॥ ___ अन्वय : सुकुशेशयेष्टशये ! शृणु इति तस्मिन् अभिनये सा शयेन निर्दिष्टे अपरस्मिन् इष्ट महाशये गिरं सारयति स्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org