________________
११-१२ ]
प्रथमः सर्गः
प्रशंसायाः कन्दुत्वं कन्दुकभावम् उपैति । यथा कन्दुकेन स्त्री क्रीडति तथा समस्तं जगत् जयकुमारकीर्तेः क्रीडनकं भवतीति भावः ॥ १० ॥
जगत्यविश्रान्ततयाऽतिवृष्टिः प्रतीपपत्नीनयनैक सृष्टिः । निरीतिभावैकमदं निरस्य प्रावर्तताऽमुष्य महीश्वरस्य ॥ ११ ॥
जगतीति । जगति अस्मिन् लोके प्रतीपाः शत्रवस्तेषां पत्न्यः सघर्मिण्यस्तासां नयनानि तेभ्यः कृत्वा एका सृष्टिरुत्पत्तिर्यस्याः सा, अविश्रान्तया निरन्तररूपेण भवित्री, अतिवृष्टिः इतिः, अमुष्य महीश्वरस्य नृपतेर्जयकुमारस्य, निर्गता ईतिर्यस्मात् सः, निरोतिश्वासौ भाव: परिणामस्तस्य एकः प्रधानभूतश्वासौ मदस्तं निरस्य निराकृत्य प्रावर्तत बभूवेति । अर्थात् जयकुमारेण ईतिरहित शासनकारिताभिप्रायेण शत्रुमारणे क्रियमाणे सति तेषां स्त्रीणां रोदनेनाऽतिवृष्टिर्जाता, अतो जयकुमारस्य निरीतिभावाभिप्राय निष्फलो बभूवेति भावः ॥ ११ ॥
9
1
नियोगिवन्द्योऽवनियोगिवन्द्यः सभास्वनिन्द्योऽपि विभास्वनिन्द्यः । अरीतिकर्तापि सुरीतिकर्ताऽऽगसामभूमिः स तु भूमिभर्ता ॥ १२ ॥
नियोगीति । नियोगिनो दूतामात्यादयस्तेषां वन्द्यो वन्दनीयः, स एव अवनियोगिवन्द्यो न नियोगिवन्द्य इत्यर्थः । अवशब्दस्याभावार्थकत्वात् अवगुणवत् । स एव विरोधाभासः । अवनेर्योगिनो भूमिपतयस्तेषां वन्द्य इति परिहारः । विभासु अप्रभासु, अनिन्द्यः स एव
अर्थ : चन्द्र-किरणों को भी लजानेवाले, कपूर से स्वच्छ गुणों ( तन्तु और धैर्यादि ) द्वारा गुंथा यह जगत्रूप पहाड़ पुण्यकी एकमात्र पवित्र मूर्ति राजा जयकुमारकी कीर्तिका गेंद बन जाता है । अर्थात् जैसे कोई स्त्री गेंद से खेलती है, वैसे ही जयकुमारकी कीर्ति जगत्रूप गेंदसे खेलती है ॥१०॥
अन्वय : जगति अमुष्य महीश्वरस्य निरीतिभावैकमदं निरस्य प्रतीपपत्नीनयनैकसृष्टि: अविश्रान्ततया अतिवृष्टिः प्रावर्तत ।
अर्थ : : भूमण्डलपर उस राजाको यह घमंड था कि मेरे राज्यमें किसी प्रकारकी ईति नहीं हो सकती । मानो उसीको दूरकर वैरियोंकी स्त्रियोंकी आँखोंसे निरंतर अतिवृष्टिकी सृष्टि हो चली ॥११॥
Jain Education International
अन्वय : सः भूमिभर्ता तु आगसाम् अभूमिः नियोगिवन्द्यः अपि अवनियोगवन्द्यः सभासु अनिन्द्यः अपि विभासु अनिन्द्यः अरीतिकर्ता अपि सुरीतिकर्ता ( अभूत् ) ।
For Private & Personal Use Only
www.jainelibrary.org