________________
जयोदय-महाकाव्यम्
[९-१० रसातले नागपतिर्निविष्टः पयोनिधौ पीतपटः प्रविष्टः । अनन्यतेजाः पुनरस्ति शिष्टः को वेह लोके कथितोऽवशिष्टः ॥९॥
यस्येति, रसातल इति । यस्य राज्ञः प्रतापेन तेजसा व्यथितः सन्तप्तः, अत एव अको दुःखीभवन् पिनाकी महादेवः अभङ्गां नित्यं वहन्ती गङ्गां न जहाति, अद्यापि शिरसा धारयति । रुद्रशिरसि गङ्गा तिष्ठतीति लोकख्यातिः । पितामहो ब्रह्माऽपि विशाले महति तामरसस्य अन्तराले मध्ये निवासवान् अभवत् नागपतिः शेषो रसातले निविष्टो गतवान् । पीतपटः कृष्णः पयोनिधौ क्षीरसमुद्रे प्रविष्टः । एतेषां तत्र तत्र निवासे लोकसमयख्यातः यः स्वभावेन समाविष्टस्तमेव कपिः जयकुमारनपप्रतापसम्पादितत्वेन उत्प्रेक्षते स्म । उक्तेभ्यः पृथक् को वाऽवशिष्टो यः किल लोके अमन्यतेजाः अप्रतिहतप्रभावो भवितुमर्हतीति ॥ ८-९ ।।
गुणैस्तु पुण्यैकपुनीतमूर्तेर्जगन्नगः संग्रथितः सुकीर्तेः। कन्दुत्वमिन्दुत्वि डनन्यचौरैरुपैति राज्ञो हिमसारगौरैः ॥१०॥
गुणरिति । पुण्यस्य सत्कर्मणः एका पुनीता पवित्रा मूतिर्यस्य तस्य राज्ञो जयकुमारस्य, इन्दोश्चन्द्रस्य स्विट कान्तिस्तस्याश्चौराः, अनन्या अद्वितीयाश्च ते चौरास्तैश्चन्द्रतुल्यनिर्मलैः, अत एव हिमस्य सारः प्रशस्तभागस्तत्सदृशगौरः उज्ज्वलगुपः शौर्यादिभिः सूत्रतन्तुभिर्वा संग्रथितः सम्पादितोऽयं जगदेव नगः सुकोतः
अन्वय : अथ यस्य प्रतापव्यथितः अको पिनाको अभङ्गां गङ्गां न जहाति । सः पितामहः अपि विशाले तामरसान्तराले निवासवान् न अभवत् । नागपतिः रसान्तराले निविष्टः । पीतपटः पयोनिधी प्रविष्टः । वा इहलोके कः अनन्यतेजाः कथितः अवशिष्टः शिष्टः अस्ति ।
अर्थ : इस प्रकार हाथमें खड्ग उठाने के अनन्तर महाराज जयकुमारके तेजसे पीडित, अतएव दुःखी हो शङ्कर नित्य प्रवाहित होनेवाली गंगाको कभी नहीं छोड़ते । पितामह ब्रह्मदेवने विशाल कमलमें डेरा जमा लिया। शेषनाग रसातल (पाताल) में जा छिपा । पीताम्बरधारी विष्णु समुद्र में जाकर सो गये। अथवा इस जगत्में कौन ऐसा बचा हुआ है जो इसकी तरह बेजोड़ तेजवाला हो ॥८-९॥
___ अन्वय : पुण्यकपुनीतमूर्तेः राज्ञः इन्दुत्विडनन्यचौरैः हिमसारगौरैः गुणैः तु संग्रथितः जगन्नगः सुकीर्तेः कन्दुत्वम् उपैति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org