________________
२७६
जयोदय-महाकाव्यम्
[ १४-१५ चक्रिसुतेति । अथ विद्याधरवर्णनानन्तरं सा प्रगुणा प्रकृष्टगुणवती सखी चक्रिसुतोऽकोतिः स आदिर्येषां तान्, भुवि चरन्तीति भूचरास्तान् राजतुजो भूपतिबालकान्, स्थलं निवासस्थानं, लक्षणमाकृतिः, सुगुणाः शौर्यादयस्त आविर्येषां ते तैः कृत्वा, आदरसात् नम्रतापूर्वकं रसान्माधुर्याद् यथाक्रममाह जगाद ॥ १३ ॥
भरतेशतुगेष तवाथ रतेः स्मरवत् किमककीर्तिरयम् । अम्भोजमुखि भवेत्सुखि आस्यं पश्यन् सुहासमयम् ॥ १४ ॥ भरतेशेति । अयं भरतेशस्य तुक् कुमारोऽर्ककोतिः रविरिव कीतिर्यस्य सः, हे अम्माजमुखि, कमलवत् प्रफुल्लानने, तव प्रसन्नतया सुहास्यमयम् ईषस्मितान्वितमास्यं मुखं पश्यन् सुखी भवेत् किमिति । पृच्छामीति शेषः, तवेच्छाया एव बलीयस्त्वात् । कस्याः क इव रतेरास्यं पश्यन् स्मरवत् । अथेत्यव्ययं शुभार्थे ॥ १४ ॥
को राजाऽवनिमाजां येन कृतोऽमुष्य नाधुना विनयः । अतुलप्रभावतोऽमाद्भयान्वितो भानुरपि कदयः ॥ १५ ॥
को राजेति। अधुना स कोऽवनिभाजां भूनिवासिनां राजाऽधिपतिर्वर्तते येन अमुष्यार्ककोर्तेः विनयः सम्मानो न कृतः स्यात्, यतोऽतुलोऽसाधारणः प्रभावो यस्य ततः। यद्वा, अतुला प्रभा कान्तिर्यस्य तद्वतोऽस्माद्राज्ञः सभया प्रभयान्वितो युक्तः, यद्वा भयेनान्वितो वा भूत्वा भानुरपि सूर्योऽपि कदयः कुत्सितोऽयो गमनं यस्य अनुजगमनः, अथ च के स्वात्मनि क्याऽनुकम्पा यस्य स एवम्भूतो वर्तते, अर्थाद्भयमन्तरा तस्यैतादृशं सततगमनं न स्यादिति ॥ १५ ॥
___ अर्थ : वह गुणवती बुद्धिदेवी आदरपूर्वक प्रसन्नताके साथ चक्रीके सुत अर्ककीति आदि भूमण्डलके राजकुमारोंका वर्णन करने लगी कि यह अमुक स्थलका राजा है, इसका यह स्वरूप है और इसमें ये गुण हैं ॥ १३ ॥ ____ अन्वय : अथ अम्भोजमुखि ! अयम् एषः भरतेशतुक् अर्ककीतिः तव सुहासमयम् आस्यं पश्यन् रतेः स्मरवत् कि सुखी भवेत् ?
अर्थ : हे अम्भोजमुखि ! यह भरत चक्रवर्तीका पुत्र अर्ककीर्ति है। यह तुम्हारे हास्यमय मुखको देखता क्या उसी प्रकार सुखी हो जायगा, जिस प्रकार रतिका मुख देख कामदेव सुखी होता है ? ॥ १४ ॥ ___अन्वय : अधुना अवनिभाजां सः कः राजा येन अमुष्य विनयः न कृतः । अतुल
अपि भयान्वित: कदयः अस्ति ।
प्रभावतः अस्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org