________________
१२-१३ ]
षष्ठः सर्गः
२७५
अनुकूलेति । प्रभावत्याः सुलोचनाया मूर्तेः शरीरस्य । यद्वा प्रभावत्या इत्येतन्मूर्तेः विशेषणं, ततः प्रभासहिताया मूर्तेः सुलोचनाया एव । कमलपक्षे च सूर्यस्य सुरथे अनुकूलेभिमुखभावमिते सति विदां विद्याधराणां मुखान्येवाब्जानि कमलानि तानि मोदपथे प्रसन्नतामार्गे अगुरगमन् प्रफुल्लान्यभवन्नित्यर्थः । पुनस्तस्मिन् रथे प्रतिकूले सति तानि मलानानि मलिनानि जातानीति ॥ ११ ॥
रथधुर्या अनयन्ताम्बरचारिभ्यो धराचलकुलं ताम् । कमलेभ्यः कुमुदशिवं शशिकिरणा हासभासमिव ।। १२ ॥
धुर्येति । रघुर्या यानवाहका जनास्तां सुलोचनामम्बरचारिभ्यो विद्याधरेभ्य आदाय धराचराणां भूमिगोचराणां भूपतीनां कुलं समाजमनयन्त, यथा शशिनश्चन्द्रस्य किरणा हासभासं विकासशोभां कमलेभ्य आकृष्य कुमुदानां शिवं विकाससौभाग्यं नयन्ति ॥ १२ ॥
चक्रिसुतादींश्च रसाद् राजतुजो भूचरानथाऽऽदरसात् । सा स्थललक्षणसुगुणादिभिः क्रमादाह च प्रगुणा ॥ १३ ॥
अर्थ : प्रभावती मूर्तिवाली उस सुलोचनाका रथ अपनी ओर मुड़नेपर उन विद्वान् विद्याधरोंके मुख कमल खिल उठे और उसके प्रतिकूल ( दिशा में ) होनेपर पुनः वे ( मुखकमल ) ठीक उसी तरह मुरझा गये, जिस तरह प्रभाशरीर सूर्यके अनुकूल ( सम्मुख ) होनेपर कमल विकसित होते और उसके प्रतिकूल होनेपर संकुचित हो जाते हैं ॥। ११ ॥
अन्वय : शशिकिरणाः हासभासं कमलेभ्यः कुमुदशिवम् इव रथधुर्याः ताम् अम्बरचारिम्यः धराचरकुलम् अनयन्त ।
अर्थ : जिस प्रकार चंद्रमाकी किरणें कमलों परसे विकास-कला हटाकर कुमुदोंके समूह पर ले जाती हैं, उसी प्रकार पालकीके ढोनेवाले लोग सुलोचनाको आकाशचारी विद्याधरोंके समूहसे हटाकर भूमिगोचर भूपतियोंके समूहकी ओर ले गये ॥ १२ ॥
अन्वय : अथ सा प्रगुणा आदरसात् रसात् च चक्रिसुतादीन् भूचरान् राजतुजः च स्थललक्षणसुगुणादिभिः क्रमात् आह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org