________________
२७४
जयोदय-महाकाव्यम्
[१०-११ किमिति । हे पवित्रकटिमण्डले, पविर्वजं तस्मात्त्रायत इति पवित्रं कटिमण्डलं यस्याः सा तत्सम्बोधने, अमीषां विद्यापराणां विषयेऽन्यत् किं वदामि यदमी सर्वेऽमी सर्वेऽपि वा किल निश्चयेन सुरता देवत्वं तस्यानुसारिणः समया आचारास्तैः कृत्वा मानवानां नराणां विस्मयाय आश्चर्याय, यद्वा सुरतं मैथुनं तस्यानुसारिभिः समयस्तैः कृत्वा वामानां स्त्रीणां नवो नूतनो यो विस्मयस्तस्मै विस्मयाय भवन्ति । स्त्रीषु नित्यं नूतनमाश्चर्यमुत्पादयन्ति ॥९॥
वैद्योपक्रमसहितांस्तत्र नभोगाधिभुव इमान सुहिता ।
तत्याज सपदि दूरा मधुराधरपिण्डखजूरा ॥ १० ।। वैद्येति । तत्र सभायां सा सुहिता सम्यक् हितेच्छुका मधुरो मधुररसयुक्तोऽधर ओष्ठ एव पिण्डखजूरं यस्याः सा सुलोचना सपदि शीघ्रमिमान् नभोगाधिभुवो नभश्चरान् । यद्वा भोगानामधिभुवोऽधिकारिणो न भवन्तीति तान् । वैद्योपक्रमसहितान् विद्याया उपयोगयुक्तान्, यद्वा वैद्यानां प्राणाचार्याणामुपक्रमः वमनविरेचनादिभिः सहितान् । मत्वा दूरादेवानवलोकनेनैव किल तत्याज उन्मुमोच, नास्माकं भोगेच्छावतीनां योग्या इत्यालोच्येत्यर्थः ॥१०॥
अनुकूले सति सुरथे विदां मुखाब्जान्यगुश्च मोदपथे । प्रतिकूले म्लानान्यपि तस्मिन् मूर्तेः प्रभावत्याः ॥ ११ ॥
अर्थ : हे पवित्रकटिमण्डले ! मैं इनके विषयमें अधिक क्या कहूँ ? ये सुरतानुसारी समयवाले हैं, अर्थात् देवताओंकी बराबरी करनेवाले एवं सुरतमें कुशल हैं। अतः स्त्रियों एवं मानवोंको भी आश्चर्यान्वित करनेवाले हैं ॥९॥
अन्वय : मधुराधरपिण्डाखर्जूरा सुहिता सा तत्र इमान् वैद्योपक्रमसहितान् नभोगाधिभुवः सपदि दूरात् तत्याज ।
अर्थ : सुलोचनाने इस कथनपर सोचा कि ये तो विद्यासम्बद्ध उपक्रमसे सहित एवं वैद्योपक्रम यानी रोगी हैं, इसलिए नभोगाधिभुव हैं अर्थात् आकाशमें चलनेवाले पक्षियोंके समान हैं। अतएव ये भोगयोग्य नहीं। यह सोचकर पडखजूर-से मधुर होठोंवाली सुलोचनाने उन्हें त्याग दिया ॥१०॥ ___ अन्वय : प्रभावत्याः मूतः सुरथे अनुकूले सति विदां मुखाब्जानि मोदपथे अगुः । च तस्मिन् प्रतिकूले ( सति ) म्लानानि अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org