________________
२७२
जयोदय-महाकाव्यम्
[ ५-७
अन्ववदत् सा कञ्चुकिसूचितमपि साम्प्रतं पदैर्ललितैः । सूत्रार्थमिव च विद्यानन्दमतिः श्लोकसङ्कलितैः ।। ५ ।।
अन्ववददिति । सा बुद्धिनामा सखी साम्प्रतमधुना श्लोकेन यशसा संकलितैर्युक्तः यशस्विभिः । यद्वा श्लोकैर्नाम द्वात्रिंशद्वर्णात्मकवृत्तविशेषः संकलितानि उपात्तानि तैर्ललितैः मनोहरैः पदैर्वाक्यात्मभिः अन्ववदन्निजगाद । कञ्चुकिना प्रबन्धकेन सूचितं सङ्केतितं राजपुत्रमिति विद्यानन्दस्याचार्यस्य मतिर्बुद्धिः सूत्रार्थं तत्त्वार्थ सूत्रनामकशास्त्रमिव ॥ ५ ॥
सुनमिसुविनमिप्रभृतीन् दक्षेतरखेचरात्मजांस्तु सती । सुदृशं सुदर्शयन्ती प्राक् पाणिसमस्यया प्राह || ६ ||
सुनमीति । सा सती बुद्धिनामसखी ननेः पुत्रः सुनमिः, विनमेः पुत्रश्च सुविनमिस्तत्प्रभृतीन् दक्षेतरखेचराणां विजयार्धगिरौ दक्षिणोत्तरदिग्भागवासि-विद्याधराणामात्मजान् तनयात् पाणिसमस्या हस्तस्य संज्ञया सुवृशं सुलोचनां सुदर्शयन्ती साक्षात्कारयन्ती सती प्राह वर्णयाञ्चकार, प्राक् सर्वतः प्रथमं किमुक्तवतीत्युच्यते ॥ ६ ॥
गगनाचानां कोटिषा येषां पृथक्कथा मोटी । कञ्चिदृणीष्व यश्चिद् धावति ते स्वनजितविपञ्चि ॥ ७ ॥
अन्वय : सा साम्प्रतं श्लोकसङ्कलितैः ललितैः पदैः विद्यानन्दमतिः सूत्रार्थम् इव च कञ्चुकिसूचितम् अपि अन्ववदत् ।
अर्थ : वह बुद्धिनामक सखी यशोवर्णनसे युक्त ललितवचन कंचुकी द्वारा सूचित तत्तत् राजकुमारसे इस प्रकार कहने लगी, जिस प्रकार विद्यानन्द आचार्यकी मति तत्त्वार्थ सूत्रका अर्थ बताती है ॥ ५ ॥
अन्वय : सती ( सा ) प्राक् पाणिसमस्यया सुदृशं दक्षेतरखेचरात्मजान् तु सुनमिसुविन मिप्रभृतीन् सुदर्शयन्ती प्राह ।
अर्थ : वह बुद्धिदेवी नामक सखी सर्वप्रथम हाथसे संकेतकर दक्षिणउत्तरके विद्याधरपुत्र सुनमि, सुविनमि आदि राजाओंका परिचय कराती हुई बोली ॥ ६ ॥
अन्वय : स्वनजितविपञ्चि ! एषा गगनाञ्चानां कोटिः येषां पृथक् - कथा मोटी । ( अतः ) यं कञ्चिद् ते चित् धावति तं वृणीष्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org