SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ३-४ ] षष्ठः सर्गः २७१ विनयानतवदनायाः सदक्षिणा बुद्धिरत्र तनयायाः । वरदा सा च समायात् प्रतिपक्षहरा भुवि शुभायाः ।। ३ ॥ विनयेति । विनियेन मार्दवभावेन आनतं वदनं मुखं यस्याः सा तस्याः शुभाया मनोहरायास्तनयाया सुलोचनाया बुद्धिनाम्नी सखी। यद्वा विदेव सदक्षिणा दक्षिणपार्श्वस्था। अथवा दक्षिणया गौरवेण समर्पितोपहारेण सहिता सा बुद्धिः सदक्षिणाऽतिकुशला सति अस्यां भुवि वरं वाञ्छितं जीवितेश्वरञ्च ददाति सा वरदा प्रतिपक्षहरा विरुद्धभावनाशिका चेत्यं सती सा बुद्धिसखी तत्रावसरे तया सह समायात् समचलत् ॥३॥ बहुलोहतया दयितान् सखी स्वयं शुद्धभावनासहिता । क्रमशो वसुधामहितानाहाऽमुष्य तु पार्श्वमितान् ॥ ४ ॥ बहुलोहेति । सा शुद्धभावनया पवित्राशयेन सहिता बुद्धिनाम्नी सखी स्वयं स्वभावेनेव बहुलो बहुप्रकार ऊहो वितर्को येषु तस्य भावस्तेन दयितान् प्रियान् । यहा बहुलश्चासो लोह आयसस्तद्भावेन कृत्वा दयिताननुग्रहणीयान्, वसुधया पृथिव्या महितान् आराधितान् सम्मानितान् । यद्वा, वसुनो रत्नस्य सुवर्णनाम्नो यद्धाम तेजस्तदेव हितं येषां तान् । पाश्वं सन्निकटभावमितान् प्राप्तान् । यद्वा पार्वेण लोहस्य कनकत्वसम्पादकेन पाषाणेन मितान् सम्मितान् अमुष्ये बालार्य क्रमश एकैकं कृत्वाऽऽह उपस्वतीत्यर्थः ॥ ४ ॥ अन्वय : विनयावनतायाः शुभायाः तनयायाः सदक्षिणा भुवि वरदा च प्रतिपक्षहरा सा बुद्धिः अत्र समायात् । अर्थ : विनयवश नम्रवदना उस राजकुमारीकी नामसे भी वह बुद्धिदेवीनामक सखी उसके साथ उसकी दाहिनी ओर चलने लगी। वह सखी उसके लिए वरदात्री थी और थो विरुद्ध भावोंको नष्ट कर देनेवाली ॥३॥ ___ अन्वय : स्वयं शुभभावनासहिता ( सा ) सखी बहुलोहतया तु दयितात् वसुधामहितान् पार्श्वम् इतान् अमुष्य क्रमशः आह ।। अर्थ : स्वयं पवित्र आशयवाली वह बुद्धिदेवीनामक सखी राजकुमारी सुलोचनाको वहाँ आये हुए भूमण्डल में सम्मानित राजाओंको एक-एक कर बताने लगी, उनका गुणवर्णन करने लगी। वे राजा लोग तरह-तरह तर्कवितोंके शिकार होनेके कारण दयनीय थे ॥ ४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy