________________
२६६
जयोदय-महाकाव्यम्
[१०२-१०३ का सौम्यमूर्तीति जयेति सूक्ती शुक्ती शुमे त्वत्कवलोपयुक्ती । सत्कर्तुमेवोदयते समुद्रो न कोऽपि नायात इतोऽस्त्यशद्रः ॥ १०२ ॥
कति । देवी किमुवाच हे सुलोचने, कः सौम्यमूतिरित्यनेन जयेत्यनेन च वचनेन प्रसिद्ध ये खलूक्ती ते तब कवलस्य आत्मबलस्य मौक्तिकस्य चोपयुक्तो यत्र ते शुभे सूक्ती मौक्तिकोत्पादिके, ते सत्कर्तुमेवायं समुद्रो मुद्रया नृपतिप्रोक्तया युक्तः समुद्रो जनसमुदाय. रूपो वारिधिरुदयते प्रसरति । शूद्रो भ्रष्टाचारः प्रहीणो ना जनः स न भवतीत्यशूद्रः, स इतोऽस्मिन् समुदाये नायातो न समागत एतादृशः कोऽपि विद्यते, तदा पुनर्जयः किमिह नायातः ? अपि त्वायात एवेति भावः ॥ १०२॥ किमिष्यते भेकगतिश्च सूक्ता श्रीराजहंस्याः सुतनो प्रयुक्ता । पथाप्यथादीयत इष्टदेशः खलोपयोगाद् गवि दुग्धलेशः ॥१०३ ॥
किमिष्यत इति । हे सुतनो, शोभनाङ्गि, श्रीराजहंस्या मन्द-मधुरगमनशीलाया प्रयुक्ता स्वीकृता भेकस्य मण्डूकस्य गतिरुत्प्लुत्य गमनं सा सूक्ताऽऽगमनिदिष्टा तोवदीष्यते किमिति, किन्तु नैवेष्टा । अथेष्टदेशोऽपि वाञ्छितस्थानमपि पया मार्गेणैवादीयते खलु । यथा खलस्य तिलविकारस्य उपयोगाद् गवि धेनो दुग्धलेशः सम्पद्यते तथाऽनेन विपुलराजकुमारसमुदायेनैव ते वरनिर्वाचनं तावच्छेयस्करं भवेदिति ॥ १०३ ॥
अन्वय : कः सौम्यमूर्तिः इति जय इति सूक्ती त्वत्कवलोपयुक्ती शुभे शुक्ती सत्कर्तुम् एव समुद्रः उदयते । ( यतः ) अशूद्रः इतः कः अपि न आयातः इति न अस्ति ।
अर्थ : हे सुलोचने ! तूने पहले तो कहा कि कौन सौम्य मूर्ति है ? बादमें जय इस प्रकार उच्चारण किया। ये दोनों सूक्तिरूपी सी हैं। वे हो तेरी आत्माका बल प्रकट करनेवाले मोतियोंसे युक्त हैं। उन्हें उत्पन्न करनेके लिए यह राजसमहरूप समुद्र उदित हुआ है। ऐसा कोई उच्चकुलीन व्यक्ति नहीं जो यहाँ न आया हो। अर्थात् जयकुमार जो तुम्हारे हृदयका प्रिय है, वह भी आया है ।। १०२॥
अन्वय : सुतनो श्रीराजहंस्याः ( तव ) सूक्ता भेकगतिः च किम् इष्यते ? अथ इष्टदेशः अपि पथा आदीयते। गवि खलोपयोगात् दुग्धलेशः ।
अर्थ : हे सुतनु ! तू राजहंसी है, अतः तुझे क्या मेढ़ककी गति समुचित इष्ट हो सकती है ? किसी इष्टदेशमें भी गमन किया जाता है तो वह मार्गसे ही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org