________________
१००-१०१] पञ्चमः सर्गः
२६५ भयान्विताहं परिषत्तयातः कुतस्तु पारं समुपैमि मातः । बालस्य वालस्यसहो न तातो मदविरुक्तः खलु पङ्कजातः ॥१०॥
भयेति । हे मातरम्ब वाणि, अहं भया शोभया भयेन चान्विता, परिषत्तया सभात्वेन कर्दमत्वेन हेतुना वा पुनरतोऽहं पारं कथं समुपैमि । यद्वा, मदनिर्मम चरणः पङ्काज्जातः पङ्कजातः पद्म इव पङ्केरुहश्च । तस्मात्पुनः पङ्कस्तातो कप्ता बालस्य सुतस्य वालस्यसहः पादसम्पर्करूपप्रमादस्य सहने समर्थो न भवति खलु, पके गन्तुमशक्यत्वादेव पुनः शनैर्गच्छाम्यहम् ॥ १०॥ विधानमाप्त्वा कमलंकरिष्णोरप्यभ्रमालोकतया चरिष्णोः। सम्भेदमापादरमुद्रणाशा देव्या मुखाम्भोरुहमुद्रणा सा ॥ १०१ ॥
विधानमिति के शीर्षमिति स्वामिनमलरिष्णोः। एवञ्च कमलं वारिजातं करिष्णोः सम्पादयित्र्या बालिकाया अभ्रमालोकतया निःसंशयपरिज्ञानरूपेण चरिष्णोरपि चालोकतया प्रकाशरूपतया अभ्रमाकाशं चरिष्णोः सूर्यरूपाया विधानमाप्त्वा देव्यास्तस्या बुद्धिनामिकाया आवरश्च मुच्च आवरमुदो तयोरणो यस्यामेतादृशी, आशाऽभिलाषा यस्याः सा मुखाम्भोरुहस्य मुद्रणा मूकत्वपरिणतिः कुड्मलता च सम्भेदमाप। यथा सूर्योदये सति कमलं विकसति तथाऽस्या मुखमपि वक्तुमारभतेति भावः ॥ १०१॥
__अन्वय : मातः ! परिषत्तया तु कुत: पारं समुपैमि, अतः अहं भयान्विता। मदद्धिः खलु पङ्कजातः उक्तः । बालस्य वा आलस्यसहः तातः न भवति ।
अर्थ : माँ ! मैं इस सोच-विचारमें पड़ी भयभीत हो रही हूँ कि इस सभारूपी कीचड़से कैसे पार पाऊँ ? क्योंकि मेरा चरण तो पंकजात अर्थात् इस कीचड़में फंसा है। किन्तु पूज्य पुरुष बालकका आलस्य कभी सहन नहीं करते ॥ १००॥
अन्वय : कम् अलङ्करिष्णोः अभ्रमालोकतया चरिष्णोः अपि विधानं आप्त्वा देव्याः आदरमुद्रणाशा सा मुखाम्भोरुहमुद्रणा संभेदम् आप।
अर्थ : 'कमलंकरिष्णोः' किसी एकको अलंकृत करनेवाली और भ्रमरहित अवकाश ( आकाश ) की ओर देखनेवाली उस सुलोचनाके ये वचन सुनकर आदरके साथ हर्षभरे शब्द स्वीकार करनेवाली देवीके मुखकी मौनवृत्ति दूर हुई ॥१०१॥
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org