________________
२६०
जयोदय-महाकाव्यम्
[ ९१-९२ शूरा बुधा वा कवयो गिरीश्वराः
सर्वेऽप्यमी मङ्गलतामभीप्सवः । कः सौम्यमूर्तिमम कौमुदाश्रयो
ऽस्मिन् सङ्ग्रहे स्यात्तु शनैश्चराम्यहम् ।। ९१ ।। शूरा इति । अस्मिन् सङ ग्रहे सभासङ्घ सर्वेऽप्यमी जनाः, शूरा वीराः सूर्याश्च, बुधा विद्वांसो बुधग्रहाश्च, कवयः काव्यकर्तारः शुक्राश्च, गिरामीश्वरा वाग्मिनो बृहस्पतयश्च भवन्तो मङ्गलतां कल्याणरूपतां भौमस्वभावतां च अभीप्सवो वाञ्छकाः सन्ति । तु पुनर्मम को पृथिव्यां मुदाश्रयः प्रसत्तिकरः कौमुदानामाश्रय इव सौम्या मूर्तिर्यस्य स चन्द्रो जयः कुमारश्च, सोमजातत्वात्, किञ्च सुन्दराकृतिः को जनो भवितुमर्हति, इति तावदहं शनैश्चरामि मन्दं यामि । यद्वा, शनैश्चरनामकग्रहवद् भवामीत्यर्थः ॥ ९१ ॥ अभ्यागतानभ्युपगम्य सुभ्रवः श्रीदृक् पुरीदृक्षतया धवान्भुवः । साभूत् समन्तादनुयोगनर्तिनी हीणापि हृष्टापि तु चक्रवर्तिनी ।। ९२ ॥
अभ्यागतानिति । शोभने भ्रवो यस्याः सा तस्याः सुलोचनायाः श्रीदृक् शोभना दृष्टिः पुरि स्वनगर्यामभ्यागतानुपस्थितान् भुवो धवान् राज्ञ ईदृक्षतयाऽभ्युपगम्य ज्ञात्वा, तु पुनः हो आनन्दसे युक्त हो गया। अतः हमारे लिए तीनों लोक यहाँ एक हो गये ।। ९० ।।
अन्वय : अस्मिन् सङ्ग्रहे अमी सर्वे अपि शूराः बुधाः कवयः गिरीश्वराः वा मङ्गलता अभीप्सवः । किन्तु मम कौमुदाश्रयः सौम्यमूर्ति कः स्यात् ( इति ) तु अहं शनैश्चरामि।
अर्थ : शूर-वीर (सूर्य), बुद्धिमान् ( बुधग्रह), कवि ( शुक्र ) महान् वक्ता (बृहस्पति ) होकर मंगल ( ग्रह या कल्याण ) चाहनेवाले उपस्थित हैं। किन्तु इनमें वह सौम्यमूर्ति ( चन्द्रग्रह या जयकुमार ) कौन है, जो मेरी प्रसन्नताका आश्रय हा ( अथवा कुमुदोको प्रसन्न करनेवाला हो), यही सोचकर ही मैं शनैश्चर ( शनिग्रह या धोरे-धीरे चलनेवाली ) बन रही हूँ॥९१ ।।
अन्वय : सुभ्रवः सा श्रीदृक् पुरि अभ्यागतान् भुवः धवान् ईदृक्षतया अभ्युपगम्य हृष्टा अपि ह्रीणा समन्तात् अनुयोगनतिनी तु चक्रवर्तिनी अभूत् ।
अर्थ : सुलोचनाको वह शोभनदृष्टि अपनी नगरीमें इस तरह आये सभी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org