________________
२५४
जयोदय-महाकाव्यम्
[७९-८१ येनाप्यमुष्याश्चरणद्वयस्य यत्साम्यसौभाग्यमवाप्तमस्य । साम्राज्यमासाय सरोजराजेः पद्मः प्रसिद्धः खलु सत्समाजे ॥ ७९ ॥
येनेति । अमुष्याः सुलोचनायाश्चरणयोदयस्य यत्साम्यं साम्यभावस्तस्य सौभाग्यं येन कमलेनावाप्तं तत्सरोजराजेर्वारिजश्रेण्याः साम्राज्यमासाच लध्वा सत्समाजे खलु 'पनः' पदोर्मा श्रीर्यस्य स पा इति व्युत्पत्त्या सिद्धोऽभूत् ॥ ७९ ॥
संगृह्य सारं जगतां तथात्राऽसौ निर्मितासीद्विधिना विधात्रा । इतीव क्लुप्ता ह्युदरेऽपि तेन तिस्रोऽपि रेखास्त्रिवलिच्छलेन ।। ८० ॥
संग्रह्योति । जगतां त्रयाणामपि सारं संगृह्य पुनविषात्रा जगत्स्रष्ट्रा ब्रह्मणाऽस्मिन् भूतले विधिनाऽसो निमिताऽऽसीत्, इतीव खलु तेन तदुदरे त्रिवलिच्छलेन तिम्रो रेखा अपि क्लुप्ता रचिता आसन् । उत्प्रेक्षालङ्कारः ॥ ८० ॥ जितापिरम्भा विधुजन्मदात्री कुतोऽथ सा चाधनसारपात्री। सुवृत्तभावादिवलेन चोरुयुगेन तन्व्याः सुकृता यतो रुक् ॥ ८१ ।। .जितापीति । यतस्तन्व्या अस्याः सुलोचनाया ऊरयुगे जङ्घायुगले सुष्ठकृता सुकृता सौन्दर्येण विहिता रुक् कान्तिरभूदिति शेषः । तेन हेतुना तेनोल्युगेन सुवृत्तभावा वतु
अन्वय : येन अपि अमुष्याः अस्य चरणद्वयस्य यत् साम्यसोभाग्यम् अवाप्तम्, स: सत्समाजे सरोजराजेः साम्राज्यं समासाद्य पद्मः खलु ।
अर्थ : जिस कमलके फूलने इसके दोनों चरणोंकी समानताका प्रसिद्धसौभाग्य पा लिया, वह संपूर्ण फूलोंके सत्समाजमें साम्राज्य प्राप्तकर सज्जनोंद्वारा 'पद्म' नामसे प्रसिद्ध हो गया ॥ ७९ ॥
अन्वय : तथा विधात्रा अत्र जगतां सारं संगृहय विधिना असौ निर्मिता आसीत् इति इव तेन त्रिवलिच्छलेन उदरे अपि तिस्रः रेखाः अपि क्लुप्ताः ।
अर्थ : विधाताने तीनों लोकोंका सार ग्रहणकर इस सुलोचनाका निर्माण किया है। इसीलिए त्रिवलीके व्याजसे इसके उदरपर उसने तीन रेखाएं कर
दी। ८०॥
अन्वय : यतः तन्व्याः सुकुता ऊरूयुगेन च सुवृत्तभावादिबलेन विधोः जन्मदात्री रम्भा अपि जिता, अथ च सा अघनसारपात्री कुतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org