________________
२४९
६८-७० ]
पञ्चमः सर्गः नो हृदैव न दृशैव विशोकैः किन्तु पूर्णवपुषैव हि लोकैः । मज्जितं सुदृशि तत्र मदेन भूषणानुगतबिम्बपदेन ॥ ६८ ॥ नो हृदैवेति । विशोकैः शोकवजितः प्रसन्नैरित्यर्थः । लोक! हृदेव न केवलं हृदयेनेव न च दृशेव चक्षुषेव वा तत्र सुदृशि सुलोचनायां मज्जितं बुडितं किन्तु तस्या भूषणानुगतानां बिम्बानां पदेन च्छलेन पूर्णेन वपुषेव हि मवेन हर्षलक्षणेन निरवशेषतया
मज्जितमित्याशयः॥६८॥
सन्निमेषकदृशा खलु पातुं रूपमम्बुजदृशो ननु जातु । जुम्भणच्छलितयाऽरमशक्तैराननं विवृतमित्यनुरक्तः ॥ ६९ ॥
सन्निमेषेति । ननु तर्कणायाम् । अम्बुजदृशः कमललोचनायास्तस्या रूपं सन्तो निमेषा यस्यां सा तया सन्निमेषकदृशा जातु मनागपि किं पुनः सर्वमित्यर्थः। पातु द्रष्टुमशक्तरसमथैः अनुरक्तरनुरागिभिः मनुः जम्भणस्योद्वासिकायाश्छलितया मिषवत्तया पुनराननं मुखमरं शीघ्रमेव विवृतमुद्घाटिततं द्रूपावलोकनसकामस्तैः जृम्भितमित्यर्थः॥६९॥ प्रौढतामुपगतानि विभूनां मानसानि खलु यानि च यूनाम् । ताम्रचूडपरिवायकरावैर्जागृति स्म प्रतियान्त्यनुभावः ॥ ७० ॥
अन्वय : तत्र विशोकैः लोकैः सुदृशि नो हृदा एव, न दृशा एव, किन्तु भूषणानुगतबिम्बपदेन मदेन पूर्णवपुषा एव हि मज्जितम् ।
अर्थ : वहाँ प्रसन्नचित्त लोग न केवल मन या दृष्टिसे ही, किन्तु सुलोचनाके आभूषणोंमें प्रतिफलित होनेवाले अपने-अपने प्रतिबिम्बोंके व्याजसे सम्पूर्ण शरीरसे ही सुलोचनामें डूब गये ॥ ६८ ॥
अन्वय : ननु अम्बुजदृशः रूपं सन्निमेषकदृशा जातु खलु पातुम् अशक्तैः अनुरक्तः इति जृम्भणच्छलितया अरम् आननं विवृतम् ।
अर्थ : क्या सुलोचनासे अनुराग रखनेवाले लोगोंने निमेषवाली अपनी आँखोंद्वारा उसके रूपको पीनेमें स्वयंको सर्वथा असमर्थ पाकर जंभाईके छलसे अपनाअपना मुँह शीघ्र खोल नहीं दिया ? ॥ ६९ ॥
अन्वय : यूनां विभूनां यानि च खलु प्रौढताम् उपगतानि मानसानि, तानि अनुभावैः ताम्रचूडपरिवाद्यकरावैः जागृति प्रतियान्ति स्म ।
Jain Education int
o nal
For Private & Personal Use Only
www.jainelibrary.org