SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अयोदय-महाकाव्यम् [६१-६३ भूषणेष्वरुणनीलसितानामश्मनां द्विगुणयत्यभियाना । स्वाङ्गसङ्गमितभाभिररेपान् कुङ्कुमैणमदचन्दनलेपान् ॥ ६१ ॥ भूषणेष्विति । अरुणानि च नीलानि च सितानि च तानि रक्त-कृष्ण-श्वेतानि यानि अश्मानि रत्नानि तेषां भूषणेषु नानामणिनिमितेषु कङ्कण-केयूर-नूपुरादिषु, अङ्गेषु सङ्गमिताभिरेब भाभिः प्रभाभिः कुङ कुमस्य केशरस्य एणमदस्य कस्तूरिकाल्यस्य चन्दनस्य च अरेपाननिन्दिताल्लेपान् सा पुनरभियाना गमनाभिमुखी च सती तान् विगुणयति स्म ॥ ६१ ॥ अन्दुभिस्तु पुनरंशुकराजैः सान्द्ररत्नलसदंशुसमाजैः । नावकाशममुकान्नकलापः कापि सम्यगिति पातुमवाप ॥ ६२ ।। अन्दुभिरिति । सान्द्राणि घनीभूतानि च तानि रत्नानि तेषु लसन्तोऽभिचमत्कुर्वन्तो येऽशवः किरणास्तेषां समाजो यत्र तैरंशुकराजैः वस्त्रवरैस्तु पुनरन्दुभिर्भूषणैरपि समलङ कृताममुकां सुलोचनां सम्यगिति पातुं यथेष्टमवलोकयितुं नृणां कलापः समूहोऽवकाशं नावाप ॥ ६२॥ पूर्वमत्र जिनपुङ्गवपूजामाचचार नृपनाथतनूजा । यत्र भृत्रयपतेरथ भक्तिः सव सम्भवति सत्कृतपक्तिः ॥ ६३ ॥ अन्वय : अभियाना सा भूषणेषु अरुणनीलसितानाम् अश्मनाम् स्वाङ्गसङ्गमितभाभिः अरेपान् कुङ्कमैणमदचन्दनलेपान् द्विगुणयति स्म । अर्थ : उसके शरीरमें प्रशंसा-योग्य कस्तूरी, चंदनादिका विलेपन लगा था। उस विलेपनकी शोभा, सुलोचनाके शरीरके आभूषणोंमें जटित लाल, नीले और सफेद रत्नोंकी कांतिसे दुगुनी हो गयी ॥ ६१ ।। __ अन्वय : नृ कलापः सान्द्ररत्नलसदंशुसमाजः अन्दुभिः अमुकां सम्यग् इति पातुम् अवकाशं न अवाप। अर्थ : जिनमें खूब रत्न जड़े हुए हैं, ऐसे आभूषण और वस्त्रोंद्वारा ढंकी उस सुलोचनाको कोई भी मानव-समाज अच्छी तरह देखनेका अवकाश नहीं पा रहा था । ६२ ॥ अन्वय : अथ नृपनाथतनूजा पूर्व जिनपुङ्गवपूजाम् आचचार । अत्र भूत्रयपतेः भक्तिः, सा एव सत्कृतपक्तिः सम्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy