________________
४६.४७ ] पञ्चमः सर्गः
२३९ यत्सुवर्णकलितं ललितं स्याद् द्वैतरूपचरणश्रुतमस्याः । ऊरुयुग्ममिदमेव तु सत्यं वृत्तभावमनुविन्दति नित्यम् ॥ ४६ ॥ यत्सुवर्णेति । अस्या बुद्धिदेव्या ऊरुयुग्मं जघनयुगलं नित्यं वृत्तभावं वर्तुलाकारत्वमनुविन्दति । यद्वा चारित्ररूपतामुरीकरोति । यति-श्रावकभेदेन द्वैतरूपं यच्चरणश्रुतं चरणानुयोगशास्त्रमिव यत्खलु सुवर्णेन शोभनरूपेण कलितं युक्तम् । पक्षे सुवर्णेन उत्तमकुलजातेन जनेन कलितं स्वीकृतम् । एवं पुनर्ललितं सुन्दरं सत्यमेवास्ति। तु पादपूरणे ॥४६॥
आयताभ्युदितवृत्तसुरूपं वैधधर्मपथयुग्मनिरूपम् । भ्राजते भुजयुगं खलु देव्या या समस्ति चतुरैरपि सेव्या ॥ ४७ ॥
आयतेति । या चतुरैरपि नरैः सेव्या सेवनीयास्ति किं, पुनरन्यैरित्यपिशब्दार्थः । तस्या देव्या देवताया बुद्धिनाम्न्या भुजयोर्बाहुदण्डयोः युगं युगलं विधेरागतो वैधो व्यवहाररूपो लोकाचारमयः, तथा धर्मादागतो धर्म्य आगमोक्त उत्तरलोकहितङ्करः, वैधश्च धय॑श्च तौ पन्थानौ तयोर्युग्मं तस्य निरूपो निरूपणमिव निरूपणं यस्य तद् भ्राजते शोभते, खलुत्प्रेक्षणे । कीदृशं तदिति चेत् आयताभ्युदितवृत्तसुरूपमायतं विस्तृतमभ्युदितमभ्युदयमयं वृत्तं वर्तुलाकारं सुरूपं शोभनाकारं चेति परस्परविशेषणविशेष्यतया कर्मधारयसमासः । पक्षे, आयतमसंकुचितमक्लिष्टमभ्युदितस्य स्वर्गादेवृत्तं वृत्तान्तो यत्र तच्च तच्छोभनं रूपं ग्रन्थस्यावृत्तिर्यत्र तदिति ॥ ४७ ॥
अन्वय : अस्याः ऊरुयुग्मं सुवर्णकलितम्, इदम् एव तु सत्यं द्वैतरूपचरणश्रुतं यत् नित्यं वृत्तभावम् अनुविन्दति ।
__ अर्थ : इस देवीकी जंघाओंका युगल सूवर्णकी तरह कांतिमान् और देखनेमें सुन्दर था । निश्चय ही वह दो प्रकारके चरणानुयोगशास्त्र-सा था, जो सदा वृत्तभाव ( सदाचार या गोलाकार ) को लिये हुए था।
विशेष : यहाँ जंघा-युगलको श्लेष द्वारा यति-श्रावक भेदसे द्वैतरूप चरणानुयोगशास्त्रकी उपमा दी गयी है। वह भी सुन्दर रूपसे युक्त ( सुवर्णकलित ) और वृत्तभाव ( चारित्र्यरूपता ) धारण करता है ।। ४६ ॥ - अन्वय : या चतुरैः अपि सेव्या समस्ति, तस्याः देव्याः भुजयुगं जगति आयताभ्युदितवृत्तसुरूपं च भ्राजते । तत् वैधधर्मपथयुग्मनिरूपं खलु ।
अर्थ : जो चतुर लोगोंद्वारा भी सुसंसेव्य है, उस बुद्धिदेवोको भुजाएँ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org