________________
जयोदय- महाकाव्यम्
[ ४४-४५
अन्ततां स्फुटमनेकपदेन यान्ति सम्प्रति गुणाः प्रमदेन । नास्तिकत्वमुत दुर्गुणभारः सन्तनोति सुतरामतिचारः ॥ ४४ ॥
२३८
तामिति । सम्प्रति अधुनाऽस्या गुणाः शीलसौन्दर्यादयोऽनेकपदेन अन्ततां यान्ति बहुरूपेण भवन्तोऽपि सुन्दरतामनुभवन्ति, अन्तशब्दस्य सुन्दरतावाचकत्वात् । यद्वाऽनेकपदेन सार्धमन्ततामनेकान्तताम्, अनेकेऽन्ता घर्मा एकस्मिन्नित्यनेकान्तस्तस्य भावं स्याद्वादरूपतामित्यर्थः । केन प्रमदेनेति, प्रकृष्टो मवो हर्षस्तेन । पक्षे प्रकृष्टेन मदेन स्वगतेन वीर्येणेति, 'मदो मृगमदे मधे दानमुद्गर्वरेतसि' इति विश्वलोचनः । अथ पुनर्बुर्गुणभारोऽतिचारो बन्धनं भवति येन स सुतरामेव स्वयमेव नास्तिकत्वमभावं सन्तनोति नैवास्ति । यद्वा नास्तिकवादतामङ्गीकरोतीति, 'गतौ बन्धेऽपि चारः स्यादिति विश्वलोचनः ॥ ४४ ॥
उल्लसत्कुचयुगव्यपदेशादेतदीयहृदये तु विशेषात् । वाच्यवाचकयुगन्धर मेतद्राजते कनककुम्भयुगं तत् ।। ४५ ।।
उल्लसदिति । एतस्याः सम्बन्धि तवेतदीयं हृदयं वक्षस्तस्मिन् तु पुनविशेषात् उल्लसद् उद्गच्छत् कुचयुगं तस्य व्यपदेशाच्छलाद् वाच्यवाचकयोर्युगं द्वितयं धरति यत् तच्चैतत् कनकस्य स्वर्णस्य कुम्भयोः कलशयोर्युगमेव राजते, यथा वाच्यवाचकयोमिथः सम्बन्धस्तथाऽनयोरपीति भावः ॥ ४५ ॥
समान गुरु ( उन्नत ) थी । जघनस्थल कामशास्त्र था और उदर शून्यवाद लिये हुए था ॥ ४३ ॥
अन्वय : सम्प्रति गुणाः प्रमदेन अनेकपदेन स्फुटम् अन्ततां यान्ति । अथ सुतराम् अतिचारः दुर्गुणभारः नास्तिकत्वं सन्तनोति ।
अर्थं : इसके गुण स्पष्टरूपसे प्रसन्नतापूर्वक अनेकांत-पदको प्राप्त हो रहे थे, अर्थात् बहुत थे । दुर्गुणों का भार, जो कि वहाँ था ही नहीं, स्वयं ही नास्तिकता प्रकट कर रहा था ॥ ४४ ॥
अन्वय : एतदीयहृदये तु विशेषात् उल्लसत्कुचयुगव्यपदेशात् एतत् वाच्यवाचकयुगन्धरं तत् कनककुम्भयुगं राजते ।
अर्थ : उस विद्यादेवी के वक्षःस्थलपर विशेषरूपसे उभरते जो दो कुच थे, वे वाच्य और वाचक दोनोंके अभेद-सम्बन्धको धारण करनेवाले दो सोने के कलशोंकी तरह शोभित हो रहे थे ।। ४५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org