________________
४२-४३ ]
पञ्चमः सर्गः
ओष्ठ एवमरुणाम्बरजल्पः सत्कुचो भवति कुम्भककल्पः । दृष्टिरेव लभते क्षणिकत्वं हस्तयुग्ममथ पल्लवतत्त्वम् ॥ ४२ ॥
ओष्ठ इति । अस्या ओष्ठोऽरुणं लोहितमम्बरमाकाशं जल्पतीति । किञ्च अरुणाम्बरनाम - मतजल्पकः । सत्कुचः समीचीनः स्तनश्च कुम्भ एवं कुम्भकस्तत्कल्पः कलश इव पृथुलाकारः । यद्वा कुम्भको नाम स्वरोदयशास्त्रविहितस्तम्भितो वायुस्तस्य कल्पः प्रकरणवद्भवति । दृष्टिरस्या नयनं क्षणिकत्वं क्षणचमत्कारित्वं चपलत्वं लभते । अथ च क्षणिकं नाम सुगतमतं तस्य तत्त्वं लभते । हस्तयोर्युग्मं द्वितयं पुनः पल्लवस्य किसलयस्य तस्वं स्वभावम् । यद्वा पदां लवा यत्र तत्पल्लवं नाम व्याकरणशास्त्रं तत्तत्त्वं लभते ॥ ४२ ॥
सत्त्रयी तु वलिपर्व विचारा श्रोणिरेव हि गुरूक्तिरुदारा । कामतन्त्रमुपयामि जघन्यं शून्यवादमुदरं खलु धन्यम् ॥
२३७
सत्त्रयीति । वलिपर्वणामुदरगतरेखाणां सत्त्रयी । यद्वा वलिपर्वणां वेदानां सत्त्रयीऋग्यजुः सामत्रयीव श्रोणिः कटिपश्चाद्भागात्मिका । सा चोदारा विशालपरिणाहा, अत एव गुर्वी उक्तिर्यस्याः सा । यद्वा गुरुतरप्रशंसनीया, सैव हि वा गुरूक्तिर्बृहस्पतिमतं चार्वाकाख्यम् । तस्या जघन्यं नामाङ्गं कामतन्त्र कामोद्दीपकम् । यद्वा कामपुरुषार्थशिक्षकं शास्त्रमहमुपयामि जानामि । उदरं च शून्यं वदतीति शून्यवादमभावप्रतिपादकम् । अत एव धन्यं मनोहरं तदेव शून्यवादं नाम मतमुपयामि ॥ ४३ ॥
४३ ॥
अन्वय : एवम् ओष्ठः अरुणाम्बरजल्पः, सत्कुचः च कुम्भककल्पः भवति । दृष्टिः एव क्षणिकत्वं लभते । अथ हस्तयुगलं पल्लवतत्त्वं लभते ।
अर्थ : उसके ओष्ठ आकाशको भी लाल बना देनेवाले थे, या रक्ताम्बरमतके अनुयायी थे । कुच कुम्भके समान या कुम्भक-विद्यासदृश थे । दृष्टि क्षणिक ( चपल ) या बौद्धमतको पुष्ट कर रही थी और दोनों हाथ नये कोपलोंके समान कोमलता लिये या व्याकरणशास्त्रका तत्त्व स्पष्ट कर रहे थे ॥ ४२ ॥
अन्वय : वलिपर्वविचारा तु सत्त्रयी । श्रोणिः उदारा, गुरूक्तिः एव हि । जघन्यां कामतन्त्रं च उदरं शून्यवादं धन्यम् उपयामि ।
Jain Education International
अर्थ : उस विद्यादेवीकी त्रिवली ऋक्, यजु, साम तीन वेदोंकी तरह थी । श्रोणी (कटिका पिछला भाग ) गुरुतर प्रशंसनीय थी, अथवा बृहस्पतिके
For Private & Personal Use Only
www.jainelibrary.org